________________
दिग्विजय महाकाव्यम्
भगवान् समुदेत्य॑हर्पतिर्विषयांस्तद्विषयान् प्रकाशयन् । कचिदम्बुधरोपरोधने मधुरा वा विधुराऽऽतपक्रिया ॥ ३७ ॥ नयभावनयाऽनया भवेद् विभवस्तीर्थपमूर्त्तितेजसः । भुवनेष्वपि तारतम्य वाँस्तनु भाजां ननु दैवसङ्गतेः ॥ ३८ ॥ सुरसंनिधिरत्र सन् निधिर्महसामीहितपूरणं नृणाम् । त्रिजगज्जनपूजनं वपुः कमला कोमलतापि तादृशी ॥ ३९ ॥ विदितं तदितोऽदितेदिते स्तन यैस्स द्विनयैर्निषेवितम् । वरतीर्थमनन्तशदं भुवि शङ्केश्वरपार्श्वशर्मणा ॥ ४० ॥ अभिधामभिधारणं श्रियां शिवपु हृदि भावयन्निव । जननप्रणयादशिश्रियन्नगरीं तामुचितां जगद्गुरुः ॥ ४१ ॥ [ इति श्रीभगवत्प्रतिमावर्णनम् ]
चलनद्वितयी भृशं बभौ दृढपद्मासननिश्चितप्रभोः । कमलोदयनित्यबोधनं निदिशन्तीव निजोपजीविनाम् ॥ ४२ ॥ गतिहेतुपदद्वयोन्मुखीभवनेऽवादि किमत्र लक्षणैः । भगवद्भजनेन चक्रिताद्युपलब्धिर्नियतोच्चगामिता ॥ ४३ ॥ चरणारुणिमानणुश्रिया नववैराग्यजितः सिसेविषुः । मुमुचें तिलं कदापि नो ननु रागः पराग सच्छिदे ॥ ४४ ॥ पुरतो मरुतां स्मिताननाः प्रभुसौभाग्यदिदृक्षया स्थिराः । अयमंहितलेऽनुबिम्बितः खलु तासामनुरागनिर्भरः ॥ ४५ ॥ अथ एव विधीयते द्विधा भवरागः प्रभुणा तथाप्यहो । उदयश्चरणेऽनुरागतः सुदृशामित्यवदत् तलं किमु ॥ ४३ ॥ भगवच्चरणद्वये ध्रुवं नवनालीकरुचिर्व्यजृम्भत । अत एव परागभागजा परमा रागदशा प्रसारिणी ॥ ४७ ॥ प्रभुणा जयता मैनोभुवं यदुपासङ्गयुगं बलाहृतम् ।
तदिदं पदसम्पदा बभौ स्फुटपञ्चाङ्गुलिमर्गणाङ्कितम् ॥ ४८ ॥
पद्य २७-४८ ]
[४२] १ “लक्षणैः” चक्रादिभिः " ।
[ ४५ ] २ " भवरागः " भवस्य संसारस्येश्वरस्य वा रागः । [ ४८ ] ३ “उपासङ्गयुगम्” उपासङ्गं शराश्रयः - तूणीर
[37]1 "अहर्पतिः” सूर्यः । ३ " तद्विषयान् " तत्पदार्थान् ॥
[38] 1 " नयभावनया" नैगमादि सप्तनयभावनया । [40] "अदितेः” पुनर्वसु नक्षत्राधिष्ठातृदेवस्य । 6 " दितेः" दैत्यमातुः ।
" " विषयान् ” देशान् ।
[41]7 "शिवपुर्या: ” आधुनिक सिरोही नगर्थ्याः । 8 "जगद्गुरुः " श्रीविजयप्रभसूरिः ॥
[41]
“चलन द्वितयी" क्रमद्वयी । 10 ""बोधनम् "
Jain Education International
For Private
७१
युगलम् | "तूगो निपङ्गस्तूणीर उपासङ्गः शराश्रयः" इति हैमः [ अभि० चिं० कां० ३ श्लो० ४४५ ]
विकासम् । 11 " निजोपजीविनाम्” खसेवकानाम् ॥
[ 42 ] 12 " चक्रिताद्युपलब्धिः" चक्रवर्तित्वादिप्राप्तिः । [43] 18 “अनणुश्रिया " महालक्ष्म्या | 14 " सिसेविषुः " सेवितुमिच्छुः । 15 " खपरागसच्छिदे” खपरपापनाशाय ॥
[44] 16 " मरुताम्” देवानाम् । 17 “स्मिताननाः " हसितवदनाः स्त्रियो देव्य इत्यर्थः । 18 " तासाम्” देवीनाम् । [48] 19 "मनोभुवम्” कामदेवम् । 20“ मार्गणाङ्कितम्” बाणैश्विहितम् ॥
Personal Use Only
5
10
15
20
25
www.jainelibrary.org