________________
युगप्रधानाचार्यगुर्वावली ।
६१
लीसंसेव्यमानैः श्री चतुर्विधश्री श्रमण संघ स्तूयमानैर्जगत्पूज्यैः श्रीमत्पूज्यैः श्री अर्बुदालङ्कारकारिणौ समस्त दौर्गत्य विदारिणौ श्रीयुगादिदेव - श्रीनेमिनाथजिनेश्वरौ नमस्कृतौ । ततोऽपहस्तितकलिकालमहाचौरेण महादान पराभूतदेवतरुवरेण परमवासनाक्षालितानेकभवसहस्रसंचितदुष्पापौघेन श्रीसमस्तविधिमार्गसंघेन श्री इन्द्रपद -स्नात्र ध्वजारोपादिमहोत्सवै रुदेश तो द्रम्म द्वादश सहस्राणि कृतार्थीकृतानि । तदनन्तरं हर्षाङ्कुरपूरितः स्वसुकृतमहाराजपूजितः सदानवः श्रीविधिमार्गसंघः क्षेमेण श्रीजावालिपुरे विस्तरेण प्रविष्टः ।
सं० १३५४ ज्येष्ठ वदि १०, श्रीजावालिपुरे श्री महावीरविधिचैत्ये सा० सलखगपुत्र सा० सीहाकारितो दीक्षा-मालारोपणादिमहोत्सवः संजातः । तस्मिन्महसि वीरचन्द्र - उदयचन्द्र - अमृतचन्द्रसाधूनां जयसुन्दरीसाध्व्याश्व दीक्षादानोत्सवः सम्पन्नः । तस्मिन्नेव वत्सर आषाढशुक्ल द्वितीयायां सिरियाणकग्रा मे श्रीमहावीरप्रासादोद्धार - श्रीमहावीरबिम्बस्थापना श्रे० भाडाश्रावक पुत्रेण श्रे० जोधा श्रावण महाविस्तरेण कारिता । सं० १३५५ ।
सं० १३५६ राजाधिराजश्रीजैत्र सिंहविज्ञत्या मार्गशीर्षासितचतुर्थ्यां श्रीजेसलमेरौ श्रीपूज्याः समायाताः । तत्र च श्रीमहाराजजैत्रसिंहेन योजनद्वयसंमुखागमनेन बहुमानपूर्वकं सा० नेमिकुमारप्रमुख समस्त समुदायेन च प्रभूतद्रव्यवेचनेन विधिमार्गप्रभावनापूर्वकं निःखानादितूर्येषु वाद्यमानेषु पठत्सु बन्दिवृन्देषु, स्थाने स्थाने संजायमाननयनमनःप्रह्लादकारिप्रेक्षणीयकेषु श्रावकश्राविकाभिर्विस्तार्यमाणेषु रास - गीत-धवलमङ्गलेषु, स्वपक्ष- परपक्षचेतश्चमत्कारकारी श्री पूज्यानां प्रवेशकमहोत्सवः संजातः ।
सं० १३५७ मार्गशीर्षशुक्लनवम्यां श्रीमहाराजजैत्र सिंहप्रेषितनिः स्वानादिषु वाद्यमानेषु दीक्षा - मालारोपणादिमहामहोत्सवः संजातः । तत्र श्रे० लखम - भां० गजपुत्रौ जयहंस - पद्महंसनामानौ दीक्षितौ ।
सं० १३५८ माघशुक्लदशम्यां श्रीपार्श्वनाथविधिचैत्ये महाविस्तरेण निःस्खानादिषु वाद्यमानेषु श्रीसमेतशिखरादिविम्बानां प्रतिष्ठा महोत्सवः श्रीमत्पूज्यैः कृतः । सा० केशवपुत्रेण सा० तोलीश्रावकेण कारापितः, फाल्गुनशुक्लपञ्चम्यां मालारोपण - सम्यक्त्वारोपादिमहोत्सवश्च सम्पन्नः ।
ततः सं० १३५९ फाल्गुन वदि ११, श्रीबाहडमेरौ सा० मोकलसिंह सा० वीजडप्रमुखसमुदायाभ्यर्थनया श्री पूज्याः श्रीयुगादिदेवतीर्थं नमस्कृतवन्तः ।
तत्र च सं० १३६० माघ वदि १०, सा० वीजड - सा० थिरदेवादिसुश्रावकैः प्रभूतद्रव्यवेचनेन श्रीजिनशासनप्रभावनापूर्व मालारोपणादिनन्दिमहोत्सवः सविस्तरः कारितः । ततश्च श्रीशीतलदेवमहाराजविज्ञया मं० नाणचन्द्र - मं० कुमारपाल-श्रे०पूर्णादिसमुदायाभ्यर्थनया च श्रीशम्यानयने श्री शान्तिनाथदेवतीर्थ श्रीपूज्यैर्नमश्चक्रे ।
ततः सं० १३६१ शान्तिनाथविधिचत्ये मं० नाणचन्द्र मं० कुमारपाल - भां० पद्म श्रे०पूर्ण-सा० रूपचन्द्रप्रमुख समुदायेन द्वितीयवैशाख सुदि ६, श्रीजाबालिपुरीय- सपादलक्षीयप्रमुखनानानगरग्रामवास्तव्यसंघ मेलापकेन श्रीपानाथप्रमुख नानाबिम्बानां प्रतिष्ठामहोत्सवः, दशम्यां च मालारोपणादिनन्दि महोत्सवः सकलस्वपक्ष-परपक्षचमत्कारकारी श्रीदेवगुरुप्रसादान्निर्विघ्नः कारितः । अस्मिन्महोत्सवे पं० लक्ष्मीनिवासगणि-पं० हेमभूषणगण्योर्वाचनाचार्य पदं दत्तमिति ।
८२. ततः श्रीजाबालिपुरीयसमुदायाभ्यर्थनया श्री जावालिपुरे श्रीमहा [वीर]देवं श्री पूज्या नमश्चक्रुः । तत्र च सं० १३६४ वैशाख कृष्णत्रयोदश्यां मं० भुवनसिंह- सा० सुभट - मं० नयनसिंह- मं० दुस्साज मं० भोजराज - सा० सीहाप्रमुखसमस्तश्रीसमुदायविहितनाना प्रोत्सर्पणापूर्वकं श्रीमत्पूज्यैर्नान श्री राजगृहादिमहातीर्थनमस्करणसमुपार्जितागण्यपुण्यप्राग्भारवा० राजशेखरगणेराचार्यपदं प्रदत्तम् । स्वपक्ष- परपक्षचमत्कारी मालारोपणादिनन्दिमहोत्सवश्च श्रीसमुदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org