SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ खरतरगच्छालंकार येन कारितः। ततश्चौरचरटायुप'लुतेऽपि मार्गे भण० दुर्लभसाहाय्यात् श्रीभीमपल्लयां श्रीपूज्याः समाजग्मुः । ततः श्रीपत्तनीयश्रीकोट्टडिकाश्रीशान्तिनाथविधिचैत्ये श्रीश्रावकपौषधशालासन्निवेशनप्रमुखश्रीधर्मकृत्यपेशलसाजेसलप्रभृतिश्री समुदायाभ्यर्थनया श्रीपत्तने श्रीशान्तिनाथदेवं नमस्कृतवन्तः । ततः श्रीस्तम्भतीर्थीयकोट्टडिकाश्रीअजितनाथदेवविधिचैत्यालयश्रीश्रावकपौपधशालाप्रमुखसद्धर्मकृत्यकुशलेन सा० जेसलेन समामन्त्र्यमाणाः श्रीशेरीषके श्रीपार्श्वनाथदेवं नमस्कृत्य सा० जेसलकारितेन वपक्षपरपक्षचमत्कारकेणानुकृतमन्त्रीश्वरश्रीवस्तुपालकारितश्रीजिनेश्वरमरिमहाप्रवेशकमहोत्सवेन श्रीस्तम्भतीर्थे श्रीपूज्याः श्रीअजितनाथदेवं नमश्चक्रुः । ८३. ततः सं० १३६६ ज्येष्ठ वदि १२, नानावदातवातसा द्धृतसर्वपूर्वजकुलेन साधर्मिकवत्सलेन सा० जेसलसुश्रावकेण मेलितेन श्रीपत्तनीय-श्रीभीमपल्लीय-श्रीवाहडमेरवीय-श्रीशम्यानयनीयसमस्तसंघमेलापकेन स्वकीयबृहद्धात सा० तोलियनिवेशितसंघधुर्यपदेन लघुभ्रातृ सा० लाखूनिवेशितपच्छेवाणपदेन विषमदुःपमाकालेऽप्यतुच्छम्लेच्छसंकुलेऽपि देशे श्रीस्तम्भतीर्थाच्छीदेवालयप्रचलनमहोत्सवो विहितः। तेन सह श्रीमत्पूज्या जयवल्लभगणि-हेमतिलकगण्यादिसाध्वेकादश केन प्र० रत्नवृष्टिगणिन्यादिसाध्वीपञ्चदशकेन च वरिवस्यमानाः श्रीमहातीर्थनमस्करणाय प्रस्थिताः । ततः स्थाने स्थाने चैत्यपरम्परासु चैत्यपरिपाट्याद्यनेकमहोत्सवेषु श्रीसंघेन क्रियमाणेषु, नानाविधतूर्येषु वाद्यमानेष्वनेकश्रावक(श्राविका?) लोकेन श्रीमद्देवगुरुगुणगणेषु गीयमानेषु, भट्टघट्टैः स्वकीयनव्यकाव्येषु पठ्यमानेषु, क्रमक्रमेण पीपलाउलीग्रामे सर्वोऽपि संघः समायातः । तत्र च श्रीशत्रुञ्जयमहातीर्थपर्वतावलोकमहोत्सवः श्रीसंघेन कृतः। ततोऽपारसंसारपारावारनिमजजन्तुजातप्रवहणायमाननिःशेपदेशागतजन्तुजातपूज्यमानश्रीशत्रुञ्जयमहातीर्थालङ्कारश्रीदेवाधिदेवश्रीयुगादिदेवपादपद्मनमस्करणयात्राहर्षप्रकर्षपादुर्भूताङ्कुरपूरपवित्रितैः श्रीचतुर्विधसंघपरिवृतैः श्रीपूज्यैर्विहिता । तत्र च सा० सलखणपुत्ररत्न सा० मोकलसिंहादिसुश्रावकैः श्रीइन्द्रपदादिमहोत्सवाः सविस्तरा विहिताः । तत्र च ज्येष्ठशुक्लद्वादश्यां मालारोपणादिनन्दिमहोत्सवः सविस्तरः श्रीसमुदायेन कारितः । ___ ततः सुराष्ट्रालङ्कारश्रीगिरिनारसंस्थितश्रीनेमिनाथमहातीर्थनमस्करणाय चतुर्विधसंघपरिवृताः श्रीपूज्याः प्रस्थिताः । नेदीयोगच्छदतुच्छम्लेच्छकटकोपद्रुतेऽपि सुराष्ट्रादेशे जगन्नाथश्रीनेमिनाथप्रसादाच्छीअम्बिकासान्निध्याच्छीमत्पूज्यज्ञानबलाच्च सुखसुखेन श्रीउज्जयन्ततलहट्टिकायां सर्वोऽपि संघः प्राप्तः । ततः श्रीनेमिनाथकल्याणकत्रयपवित्रितश्रीउज्जयन्तमहापर्वतराजालङ्कारभाराम्भोधरसौभाग्यसुन्दरनेमिनाथपादपद्ममहातीर्थ श्रीपूज्याः सकलसंघसमन्विता नमश्चक्रुः । तत्र च सा० कुलचन्द्रकुलप्रदीप सा० वीजडप्रमुखसकलसुश्रावकैः श्रीइन्द्रपदादिप्रोत्सर्पणा विहिता । ततः श्रीनेमिनाथदेवं नमस्कृत्य, स्थाने स्थाने नानाप्रभावनां विधाय, श्रीपूज्याः श्रीसंघसमन्विताः श्रीस्तम्भतीर्थ समायाताः। तत्र च सा० जेसलसुश्रावकेण श्रीदेवालयस्य श्रीमत्पूज्यानां च महता विस्तरेण प्रवेशकमहोत्सवश्चक्र । तत्र च चतुर्मासी विधाय श्रीस्तम्भनकालङ्कारश्रीपार्श्वनाथदेवतीर्थ मत्रिदलीय ठ० भरहपालसुश्रावकसाहाय्याच्छ्रीमत्पूज्या ववन्दिरे। ८४. ततः श्रीवीजापुरे श्रीवासुपूज्यदेवं नमस्कृतवन्तः । तत्र च सं० १३६७ माघकृष्णनवम्यां श्रीमहावीरप्रमुखशैलमयादिबिम्बानां प्रतिष्ठा श्रीमत्पूज्यैर्महता विस्तरेण कृता, मालारोपणादिनन्दिमहोत्सवश्व जज्ञे। ततः श्रीभीमपल्लीयश्रीसमुदायाभ्यर्थनया श्रीमहावीरदेवं नमस्कृतवन्तः । तत्र च सं० १३६७ फाल्गुनशुक्ल प्रतिपदि, सकलश्रीभीमपल्लीयश्रीपत्तनीय-श्रीप्रह्लादनपुरीयसमस्तश्रीसमुदायमेलापके नानाविधपुण्यांकदानादिप्रभावनापुरस्सरं क्षुल्लकत्रयं क्षुल्लिकाद्वयं च श्रीपूज्याश्चक्रुः। तन्नामानि च परमकीति-वरकीति-रामकीर्ति-पद्मश्री-व्रतश्रीरिति । तस्मिन्नेव च दिने मालारोपणादिनन्दिमहोत्सवः सविस्तरः श्रीसमुदायेन कारितः। पं०सोमसुन्दरगणेर्वाचनाचार्यपदं दत्तम् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002780
Book TitleKhartar Gacchha Bruhad Gurvavali
Original Sutra AuthorJinpal Upadhyaya
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1956
Total Pages148
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy