________________
(६०)
श्रीकल्पसूत्रार्थप्रबोधिनी. अपि पूज्या अभूवन् । पुरा तु संयता एव मह्या आसन्, साधूनाम भावे यदसंपतानां माहात्म्यमजायत, तीर्थस्य विच्छेदो जज्ञे । एतद् व्यतिकरः श्रीशीतलनाथजिनेशतीर्थस्थापनादर्वा किलाऽऽसीत्तदाश्चर्यमभवत् ।
युगपदष्टोत्तरशतपुंसां सिद्धिगमनं श्रीऋषभदेवतीर्थे, हरिवंशकुलोत्पत्तिः श्रीशीतलनाथतीर्थे, स्त्रीतीर्थङ्करी श्रीमल्लीनाथतीर्थे, अमरकङ्कागमनं श्रीनेमिनाथतीर्थे, असंयतानां द्विजादीनामर्चा श्रीसुविधिनाथतीर्थे, श्रीआदिनाथतीर्थेऽपि मरीचिकपिलादीनामसंयतानामर्चा शोश्रूयते । शेषाणि च तानि पञ्च श्रीवीरतीर्थे ज्ञातव्यानि । १८ श्रीवीरस्य गर्भपरावर्तनम् ---
अथैवं शक्रो विचिन्तयति-नीचगोत्रानुबन्धिकर्मोदयात्तीर्थङ्कर-चक्रवर्ति-बलदेव-वासुदेवा अपि तुच्छादिकुलेऽवतरन्ति, परमेते योनिमार्गतो नैव निर्गच्छन्तीति शाश्वती मर्यादा जागर्ति । अतोऽहमपि देवानन्दाया गर्भाद् भगवन्तमाकृष्य सिद्धार्थस्य राज्ञः पत्न्याः काश्यपगोत्रायास्त्रिशलाया गर्भे स्थापयेयम् । इति निश्चित्य कटकाधिपति हरिणैगमेषिदेवं खल्वेवमादिदेश-यद् ब्राह्मणकुण्डग्रामे ऋषभदत्तविप्रस्य भार्याया देवानन्दाया गर्भेऽवतीर्णं भगवन्तं महावीरमाकृष्य क्षत्रियकुण्डग्रामे सिद्धार्थक्षत्रियस्य राज्ञो भार्यायास्त्रिशलायाः कुक्षौ, त्रिशलाया गर्भन्तु देवानन्दायाः कुक्षौ स्थापय ? । ___ यत्सत्सु श्रेणिकादिषु बहुषु महाराजेषु सामान्यक्षत्रियराजस्य सिद्धार्थस्य पत्न्या एव गर्भे श्रीवीरजिनं स्थापयति कथं हरिणगमोषदेवं. प्रत्यादेशः ? । तदेवं समाधत्ते-देवोऽपि प्रारब्धमनुसृत्यैव समेषां प्रागिनां शुभाऽशुभं चिकीर्षति, जात्वपि ततो विपरीतं विधातुं नैवेष्टे । सा त्रिशला पूर्वजन्मनि कनीयसी याता देवानन्दा ज्यायसी, याताऽऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org