________________
द्वितीयं व्याख्यानम् ।
(५ ) किमभूयद्विच्छायो दृश्यसे ?, इन्द्रोऽवादी-यन्मां जीवन्तमत्रागतं पश्यथ, तत्र वीरजिनेन्द्रस्याऽनुकम्पनमेवाऽवगच्छत, अतस्तद्वन्दनायै सर्वे तत्र व्रजन्त्विति निगद्य देवैवीभिश्च सत्रा तत्रागत्य भगवन्तं प्रणम्य नृत्यश्च विधाय पुनः सस्थानमागतवान् ।
८ अष्टापदाऽचल उत्कृष्टपञ्चशतधनुरवगाहिन ऋषभो नवनवतिभरतवर्जितास्तत्पुत्रा अष्टौ भरतजन्मान इत्थमेतेऽष्टोत्तरशतपुरुषा युगपदेव सिद्धिमापेदिरे । तच्च मध्यमावगाहनवतामेव सम्भवति । उत्कृष्टावगाहनवतां त्वेकस्मिन् समये द्वावेव सिद्धिं बजतः, अनुष्यामवसपिण्यान्तु युगपदष्टोत्तरशतपुरुषाः सिद्धिमीयुरित्याश्चर्यमभवद् ।
९ यदा श्रीमहावीरः कौशाम्ब्यां पुर्यां समवससार, तदा सूर्यच. न्द्रमसौ यद्विमानं ज्योतिश्चके शाश्वतं वर्ति, तेनैव मूलविमानेन भगवद्वन्दनार्थं तत्राऽऽजग्मतुः । अत्र कश्चिदेवमाचष्टे-यदुत्तरं वैक्रियं विमानमारुह्मैव तावाजग्मतुस्तत्तु निर्मूलमेवाऽस्ति । मूलविमानेन तदागमनमभूतपूर्ववादाश्चर्यकरमिति ।
१० सुविधिनाथनिर्वाणतः कियत्कालानन्तरं हुण्डावसर्पिणीदोषात्सर्वेषां साधूनामुच्छेदो जज्ञे, तदा लोका एवमाचष्टुं लग्नाः-यदधुना साधुष्वसत्सु को धर्म पृच्छयेत ? इति विचारयन्तः श्रीऋषभदेवस. मये ब्राह्मणा अपि सुश्रावका आसन्निति धिया ये स्थविराः श्रावका आसंस्तानेव सर्वे पृच्छन्ति स्म धर्मम् । तेऽपि यथाश्रुतं ज्ञातं वा तथा तान् पृच्छकानाचक्षते स्म । सर्वे जनास्तेभ्यो धनानि वसनानि च वितरीतुं प्रारेभिरे। ततो लोभाकृष्टास्तेऽसंयता लोकानेवमूचिरे-यदस्मभ्यं परया श्रद्धया ये लोकाः स्वर्णं गां पृथ्वीं वस्त्रादिगजतुरगरथं शय्यासनानि च ददिष्यन्ते, तेऽत्र परत्र च सुखिनो भविष्यन्ति । यदस्मिन् काले वयमेव सुपात्रभूताः स्मः । इत्थं मनःकल्पितनानाशा स्त्राणि श्रावयित्वा मोहिताः सर्वे लोकास्तानेव गुरून्मेनिरे । इत्थमसं. यतानां पूजा सर्वत्र प्रससार, बहवो जैनेतरे पाखण्डिनो दर्शनान्तरीया
१ कथेयं नवमे व्याख्याने मृगावत्याअधिकारे द्रष्ठव्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org