________________
(५८)
श्रीकल्पसूत्रार्थप्रबोधिनी. पौरुषः सौधर्माधिपतिरस्ति, एषाऽनादिकालिकी मर्यादा वरीवृत्यते, अत एतत्सोढव्यमेव भवता, मनागपि मनसि कोपो नाऽऽनेतव्यः । प्रागपि ये भवादृशा इन्द्रा अभूव॑स्तेऽप्येतत्से हिरे । तदाकये क्रोधादन्धीभूतः सोऽवदत्-नाऽहमेतत्सहिष्ये, ये पुराऽसहन्त तेऽन्या श्रासन्, अहन्तु तादृशो नास्मि, अवश्यमेव तत्र गत्वा तत्पदं छेत्स्यामि । इत्थं प्रजन्पन् देवेवहुधा वार्यमाणोऽपि नैव न्यवर्तत । स शस्त्रशालामागत्य परशुं लात्वा चचाल । प्रयाणवेलायां सुसुमारनगरे प्रतिमास्थितं श्रीवीरं शरणीकृत्य लक्षयोजनमितं शरीरं विचकार । ततो ब्रह्माण्ड स्फोटिनादं वितन्वानस्वासयंश्च ज्योतिश्चक्रं, विभीषयंश्च देवान् , कम्पयंश्च क्षोणी, पातयंश्च भूधराणां शिखराणि, भ्रामयंश्च परितः परशुम् , समुद्वमंश्च क्रोधाग्निज्वालाम , महामर्विष्ठः सहसैव सौधर्मेन्द्रसभामाययौं । तत्रैकश्चरणं सुधर्मावतंसकविमानस्य पद्मवरवेदिकायामपरम्पादं सुधर्मासभायामतिष्ठिपत् । तदा तत्र सर्वे देवा भयभ्रान्ता इतस्ततो नेशुः । नश्यतस्तानवादीचमरेन्द्रः-रे रे देवाः ! नष्टवा क यास्यथ, कास्ते वः स्वामी ? तं तूर्णं मां दर्शयत, येनाऽधुनाऽमुना परशुना तच्छिरश्छिन्द्याम् । देवान् व्याहरन्मुखादग्निज्वालामुद्वमन् लम्बोष्ठः कूपगल्लः सूर्पकर्णे गर्तगलो नासिकाविवरः कोलदन्तः पाणौ च वृश्चिकगणं कण्ठे भोगिमालां बिभ्राणः कचिदाखून क्वचिन्नकुलान् बजर साक्षात्कृतान्ताकार आसीत् । ईदृशं महाभीषणं तमालोकमाना देवा देव्यश्च त्रस्ताच्युशुः । तच्छ्रुत्वा किमिति जम्पन्नवाधिना सौधर्मेन्द्र इत्यवेदी-नूनमेषोऽपूर्णत्वाद् घटवद्रोरवीति, अत एनं मर्तुकाममखर्वगर्वधरं शिक्षयेयमिति निश्चित्य सहस्रदवैरपि वोढुमशक्यं प्रलयकालानलोपमं भासुरं वज्रं तदुपरि सुधर्माधिपतिर्विससर्ज । तमापतन्तं विलोक्य कान्दिशाक ऊर्ध्वपादधोमुखो भूत्वा विकृतं शरीरं संक्षिप्य कुन्थुभिधातिसूचना तनुं कृत्वा शरणं शरणमिति व्याहरन् पलायमानश्चमरेन्द्रः श्रीवीरस्वामि रणान्तः प्राविशत् । तावच्छकोऽप्यवेत्-यदयं निजशक्त्या कदाप्यत्रागन्तुं नैवाऽर्हति, अतोऽवश्यमहतां तत्प्रतिबिम्बस्य भावितस्य कस्यचिदनगारस्य वा शरणं लावा सोऽत्रागात् । तस्याऽवज्ञा तु श्रेयसी नो भवितुमर्हति । इत्यवधाविधिज्ञानेनाऽवेदीत्-यदसौ श्रीवीरजिनं शरणमकरोत् । तदनु तस्य पृष्ठे शक्रेन्द्रोऽप्यागत्य भगवतश्चतुरङ्गुलदूरे स्थितं स्ववज्रमाकाक्षीत् । यतस्तस्य जिनेन्द्रशरणागतं परामपि शक्तिर्नोदति, केवलं चतुरङ्गुलदूरे स्थित्मा परिभ्रमन्नासीत् । इत्थं चमरेन्द्रं वीरजिनशरणागतत्वादमुचत् । अवोचत्प्रभुम्-मन्तुर्मे क्षम्यताम् । ततः कियदुरमा त्य क्षोणी चरणाघातेन निपीड्य जगाद-रे चमर ! सम्प्रति वीरमगवतः शरणं लात्वा मत्तो मा भैषीरित्थमभिधाय भगवन्तमभिवन्द्य शक्रेन्द्रः स्वर्लोकमागात् । चमरेन्द्रोऽपि वीरविभुं स्तुत्वा वन्दित्वा च स्वीयां चमरचश्चां राजधानीमागात् । स्वसिंहासनोपरि विच्छायवदन उपाविशत् । तदा सामानिका निलिम्पाः समागत्यैनं नेमुर्जगदुश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org