________________
द्वितीयं व्याख्यानम् ।
(५७) वीरशालिकोऽपि तो मृतौ श्रुत्वा अहो ! लग्नं तयोः पापीय लोः पापमिति मनोगतं तदःखं विमुच्य वैराग्यादज्ञानतपस्तप्त्वा, सौधर्मदेवलोके किल्विषीदेवोऽभवत् । तत्रैवावतीर्णी निरीक्ष्य दध्यौ-हहो ! इमौ मे प्राक्तनौ विद्विषो स्तः, यौगलिक सुखमत्रानुभूय मृत्वा देवौ भविष्यतश्चेद्वरं न स्यात् । यथा देवो न स्यातां तथा मया यतितव्यमित्यवधार्य तदैव तावुत्पाट्य चम्पापुर्यामिक्ष्वाकुवंशीये चण्डकीर्तिनृपे निरपत्ये मृत्युं नीते सर्वे पौरा राजकीयाश्च लोकाः को नो राजा भवितेति चिन्तापरा आसन्, तत्राऽऽनीय तेभ्यः समापयत् , अम्पधाच्च युष्माकं महती चिन्ताऽऽसीदत एनं नृप कुरुत, अमुष्य सुरलोके कल्पतरोः फलाशनाऽभ्यासो वर्वर्ति, तत्स्थाने भवन्तो मृगयाञ्चामुं शिक्षयत । देवो मनसि दध्यौ-यदसौ नूनममुना कर्मणा मांसाऽऽशी भृत्वा मृत्वा च नरकं गन्ता, ततो मे वैरशुद्धिर्भवितेति । अथ तयोर्हरिहरिणीति नाम्नौ लोका निगद्य स देवः स्वस्थानमगमत् । इतश्च तं हरिराजं मद्यमांसव्यसनिनं लोका अचिरादेव चक्रुः । तत एव लोके हरिवंशः पप्रथे । इत्थं तौ हरिहरिणीयुगलिको मृत्वा मद्यमांसाबमध्यव्यसनान्नरकं यातौ।
७ न हि कदाचिदपि चमरेन्द्र ऊर्ध्वं गच्छति, किन्त्वस्यामवसपिण्यां दक्षिणाऽसुरनिकायस्याधिपतिश्चमरेन्द्रो हि प्रथमं स्वर्ग जगामे त्याश्चर्यम् । यथा
___ अमुष्मिन्नेव भरतक्षेत्रे विभेलसन्निवेशे कश्चिदेकः पूरणमहेभ्य उवास । सचैकदा पश्चार्धयामे समुत्थाय परिवारांश्च जागरयन्मनस्येवं विम्रष्टुमलगत् । पुरा जन्मनि यदकारि सुकृतम् , तन्महिम्नवाऽस्मिन्मवे किलेशी सम्पत्तिरलम्भि । अतो मयात्रापि भवे किमपि सुकृतं कर्त्तव्यं येनाऽग्रे सम्पत्तिमान् भविष्यामीति विचार्य प्रभाते ज्ञातीनापृच्छय कुटुम्बचिन्तां पुत्रोपरि निक्षिप्य तापसी दीक्षा लात्वा स एवमभिजग्राह - यन्मया द्वौ द्वावुपवासौ कृत्वा पारणं कर्त्तव्यं यावज्जोवम् । तत्रापि चतुरस्रपात्रमादाय भिक्षिते प्रथमे कोणे यत्पतेत्तजलचराव देयम् , द्वितीये निपतितमपि भिक्षाऽन्नं पक्षिभ्य एव देयम् , तृतीये पतितं त्वतिथिसादेव कर्त्तव्यम् , स्वयन्तु तुरीये यत्पतिष्यति, तदेव भिक्षानं विशुद्धजलेन प्रक्षाल्य भोक्तव्यम् । इत्थमवर्षाणि तपः कृत्वा मृत्वा चमरचश्वाराजधान्यां चमरेन्द्रनामा भवनपतिर्देवानामिन्द्रोऽभवत् । जातमात्र एवं निजशिरसि सौधर्मेन्द्रपादमवधिना ददर्श, सेन तस्य मनसि महती क्रोधानलज्वाला समुत्तस्थौ । तदा सकलसामानिकदेवानाकार्य व्याजहे-भो देवा ! कोऽसौ दुर्धीर्वस्तपुण्यो मम शिरसि पादौ निधायाऽऽस्ते ?, देवा ऊचिरे-पूर्वजन्मार्जितसुकृतराशिकोऽतुलर्द्धिबल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org