________________
(५६)
श्रीकल्पसूत्रार्थप्रबोधिनी. ६ बहुशो युगलिनो मृत्वा नरकं न गच्छन्ति, किन्त्वस्यामवसपिण्यां हरिहरिण्यौ नरकं जग्मतुरित्याश्चर्यम् । तथाहि
__ अस्मिन्नेव जम्बूद्वीपे भरतक्षेत्रे कौशाम्बी नगरी वर्तते, तत्र सुमुखो नाम राजास्ति । स चैकदा वसन्तौ गजारूढः पुराऽऽसन्नवाटिकायां क्रीडायै गच्छन्मार्गे कस्यचिद्वीरकाभिधशालापतेरतिरूपवतीं प्रेयसी वनमालामवलोक्य परस्परसरागावलोकने च जाते तदनुरागीभूयैकपदमपि गन्तुं नो शशाक क्षितिपतिः । तदा मन्त्रिणा भणितम्-स्वामिन् ! कथमत्र चिरं तिष्ठसि, अग्रे न चलसि तत्र को हेतुः ? । तदुक्तिमाकये लजया तदने चचाल, परन्तु तामेव ध्यायतः शून्यचित्तस्येव दृश्यमानस्य तस्य राज्ञो मनः क्वापि नारंस्त । मन्त्रिणा पृष्टः-राजन् ! अद्येशी मनसि शून्यता कथमजायत, तत्कारणं ब्रूहि । भूयोभूयस्तेन बदाग्रहेण पृष्टः क्षोणीधवस्तत्कारणं तमवादीत् । तच्छत्वा प्रधानोऽवक्-प्रभो ! मा शोचीः, अचिरादेव तां करगतां ते विधास्यामीति सत्यं जानीहि । ततो गृहागतो मन्त्री तदैवाऽऽत्रेयिकापरित्राजिकामाकार्य तत्कार्यमादिशत् । सापि विदग्धा तत्प्रेषिता तदन्तिकमागत्य क्षणं शयानां क्षणं निःश्वसती, चणमुत्तिष्ठन्ती, क्षणमुपविशन्तीमित्थं चेष्टमानां विरहव्याकुलां वनमालामालोक्य समूचे --सुन्दरि ! तवेदृशी चेष्टा कथमजापत ?, मनसि ते का बाधा ? तो मे कथय । तूर्णमहं तद्वारणोपायं कुर्याम् । तच्छ्रुत्वा सा वनमाला स्वमनोगतं सर्वमवादीत् । तन्निशम्य परिव्राजिका न्यगदत्-सुभगे ! चिन्ता मागाः, अवश्यमहं त्वां राज्ञा सह श्वः सङ्गमयिष्यामि । ततः प्रभाते जातेऽवसरं लब्ध्वा सा परिवाजिका तां वनमाला नृपान्तिकमानीतवती । तामालोक्याऽन्तःपुरेऽतिष्ठिपत्, वैपयिकं च सुखं तया साकं भक्तमारभत । इतश्च गृहागतो वीरशालिकः प्रेयसीमपश्यन् सर्वत्र गवेषयन् नैकटिकजनांश्च भृयोभूयः पृच्छन् प्रियाविरहत आधिमान जायत, दिवानिशं तामेव स्मरंश्चतुष्पथादौ पर्यटन विक्षिप्तोऽभवत् । अथैकदा प्रावृषि राजभवनाऽधस्तादागत्य यावदतिष्ठत्तावद् वनमालया सह समागतो राजापि गवाक्षे तस्थिवान् । तदवसरे नीचैर्विक्षिप्तचेतसं वीरशालिक निरीक्ष्य धिङ् मां परकान्तापहारिणं ध्रुवमेष मया तद्विरहानले निपात्य दुःखितः । एतदकृत्यकरणेन महापापीयांश्चाऽभूवम् । इत्थमात्मानं निन्दन राजा भृशमनुतताप । वनमालाऽपि ' हो ! अमुष्य प्रियतमस्य बोढुस्त्यागेन का मे गतिर्भविष्यतीति ' भृशमन्वशोचत् । इत्थं पश्चात्तापं विदधतावुभावाकस्मिकेन विद्युतत्पातेन मृत्वा हरिवर्षक्षेत्रे युगलिकाबभूताम् । तत्र च कल्पवृक्षः सर्वेभ्यो मनोवाञ्छितं वितरति, तेन सकला भपि सुखमनुभवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org