________________
द्वितीयं व्याख्यानम् ।
(५५) मार्गमतिक्रम्य मध्यमार्गे स्थितिः श्रेयने नस्यादतस्त्वया तत एव ममोपरिकृपादृष्टिवृष्टिः कार्येति निगनने चचाज । कपिलः पश्चाद्वलित्वा पद्मनाभमृचे-भोः पामर ! तव नगर्याः कोष्ठभञ्जनं केनाऽकारि ?, पद्मनाभो जगाद-स्वामिन् ! जम्बूद्वीपतः श्रीकृष्णो वासुदेवो मद्राज्यं जिघृक्षुरिहागात , तेन साकं मघा बहुभीषणमयोधि, सएव सर्वमेतदकृत । तदाऽलीकं बचो निशम्य प्रकुपितः कपिलो व्याज-रे पापिष्ठ ! ममागे मृषा जल्पसि ?, धिक्त्वाभनयंकारि शामित्वं निर्भय देशात्तस्मानिष्काश्य तत्पुत्रश्च तद्राज्ये संस्थाप्य कपिलो वासुदेवः स्वस्थानमागात् ।
अथ पुरुषोत्तमः श्रीकृष्णः सागरं सुखन समुल्लङ्घय पाण्डवानाख्यत्-अहं लवगणाधिपसुस्थितदेवं द्रष्टुं व्रजामि, यूयं नायनारुह्य नङ्गामुत्तीर्य मदर्थं नावमत्र तूर्ण प्रेषयत । इत्युक्त्वा श्रीकृष्णे प्रस्थिते द्रौपद्या सार्थ पाण्डवा महापोतेन गङ्गामुत्तेरुः । तत्रैवं तैरचिन्ति-जावं विना श्रीकृष्णो भागरिधी मुत्तरिष्यति नवेति दिदृक्षवस्ते नावं न प्रैपिपुः । इतः कृष्णः पोतं प्रतीक्षमाणश्चिरमतिष्ठत् , मनसि शशङ्के च-यदेते पाण्डवा बुडिताः किम् ? नोचेकथमियत्यां वेलायां गतायाभपि नौ गात् , प्रान्ते च तेषां ब्रुडनभवधार्य करेणै केन ससारथिं रथं तिीयेन शस्त्राणि, तृतीयेन तुरगांश्चतुर्थेन सार्धध्याधिकपष्टियोजनाऽऽयता गङ्गां सन्तान्मध्यगतः श्राम्यति स्म । तदा श्रमापनोदाय मध्ये रम्यं स्थलं जाह्नवी व्यकरोत् , तत्र चिरं विश्रम्य पुनरवशिष्टां तामुत्तीर्य तीरमागात् । तत्र हसतस्तानुदीक्ष्य प्रकुपितः श्रीकृष्णो बभाषे-भोदुर्मतिकाः ! भवद्भिनौंः कथं न प्रेषिता ?-तैरुक्तम्, भवत्पौरुषप्रेक्षणाय । पुनरूचे वासुदेवः-लक्षयोजनममुं सागरमुनध्य वः पञ्चानामपि विजेतारं पद्मनाम जित्वा हृतां द्रौपदी वः समार्पयम् । तदा मे पौरुषं नाऽपश्यत ?, इत्थं कोपाटोपं दर्शयन् पश्चापि कौन्तेयाँल्लोहदण्डमादाय हन्तुमुद्यतोऽभवत् । परमेवं दध्यौ-यदीपां इनने महाननर्थो भवितेति विचिन्त्य दयालुत्वात्तानहिंसन् रथानेर तेषामभाटीद , अवोचञ्च-दुर्भतयः ! मुखं मां मादर्शयत, देशान्तरमेवाऽतः परं श्रयत । ततः श्रीकृष्णः सहसैन्यगणेरिकामाप । पाण्डवा अपि हस्तिनापुरभीयुः, कृष्णाऽऽदिष्टदेशनिष्काशनादिसकलोदन्तं मातरं न्यवेदयंश्च । ततः कुन्ती तदैव द्वारिकामागत्य श्रीकृष्णं मधुर चला प्रसादयामास । कृतापराधान् निजसु. ताँस्तत्पादयोर्दण्डवन्न्धपातयश्च । तदा तानेवमुवाच वासुदेवा-यत्र रथानभनजम् , तत्रैव ' स्थनूपुर' नाम नगरे निर्माय निवसत । ततस्ते तत्रैव गत्वा न्यवात्सुः, प्रान्ते च पुत्राय राज्यं दत्वा द्रौपद्या सह दीक्षां लात्वा षष्टाऽष्टमादितपांसि कृत्वा भणित्वा च चतुर्दशपूर्वाञ् शत्रुञ्जये महातीर्थे मोक्षमाः । द्रौपद्यप्येकादशाङ्गीमधीत्य दुष्कराणि तपांसि कृतवती, प्रान्ते च मासिकी संलेखनां कृत्वा मृत्वा पञ्चमं देवलोकं प्राप्तवती, ततश्श्युत्वा महाविदेहक्षेत्रेवतीर्य मोक्षमधिगमिष्यति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org