________________
( ५४ )
श्री कल्पसूत्रार्थप्रबोधिनी.
पराक्रमो हीयेत, नः पराजयो वा संभवेत्तदाऽवश्यं त्वया साहाय्यं कर्त्तव्यम् । कृष्णोsत्रकू - भोः पाण्डवाः ! भवन्तो महाबला लब्धकीर्त्तयस्तथाप्येवं बिभीथ कातरवद् भाषध्वे च तेनानुमिनोमि यद्वो विपक्षाजयप्राप्तिर्दुष्करैव तथापि समुत्साहितास्ते पाण्डवा युद्धाय चेलुः । तत्र पद्मनाभेन युध्यमानास्ते विजिग्यिरे । तत्रावसरे भीत्या समराङ्गणास्वलायमानास्ते सिंहनादञ्चक्रुः । तच्छ्रुत्वा पाण्डवानां पराजयमनुमाय कृष्ण एकाक्येव रथमारुह्य तत्रागत्य विपक्षपक्षं मथितुं लग्नः । मुरारेः शार्ङ्गरवमाकण्र्येन कान्दिशीकाश्रम्बः सकला अपि नेशुः । स्वयमपि पद्मनाभः कथमपि नष्ट्वा नगरान्तः प्रविश्य पुरद्वारि कपाटं पिधाय स्वमत्रायत तदा नरसिंहरूपधारी मुरारिरपि तलप्रहारेण नगर्याः कोष्ठमभनक्, तस्मिंश्च भने सर्वे लोकास्तत्र सुः, प्रासादाश्च भूयांसो निपेतुस्ततो महती भीतिमापन्नो निरुपायः पद्मनाभो द्रौपद्याः समीपमागत्य तामवादीत् - सतीमतल्लिके ! मम शरणं भव | द्रौपदी बारे दुर्मते ! मया तु प्रागेव गदितं यन्मामत्राssनीय सुखं नानुभविष्यसि, यतो मद्गवेषणाय कृष्णप्रमुखा बहवो बलीयांसो विपक्षपक्ष जेतारः समेष्यन्ति अस्त्वधुनापि जिजीविषसि चेत्स्त्रीवेषं विधाय मुखे च तृणं दला मत्पृष्ठे स्थीयतामिति । द्रौपद्या भाषितमुरीकृतवान् सोऽपि । तावत्तत्र श्रीकृष्णः समायातः, धृतस्त्रीवेषं पद्मनाभं द्रौपद्याः पृष्ठे स्थितमालोक्य कोऽयमित्यपृच्छत् । सोवाच-भवद्भीत्या राजा पद्मनाभ इत्थमत्रागत्य तावकक्रमतामरसौ सेवितुं स्थितोऽस्ति । इति तयोक्ते पद्मनाभः पाहि मां शरणागतमिति व्याहरन् वासुदेवस्य चरणकमलयोः पपात । तदा कृष्णोऽपि तदुपरि दयामानीय जीवन्तं तममुञ्चत् । बभाषे च पुरैवं त्वया नावेदि यदस्याः शोधयितारो भूयांमागता मां दुर्दशं करिष्यन्तीति । याहि ' एतस्था दययैव त्वां जीवन्तं जहा मे' इत्याभाग्याऽखण्डितशीलशालिनीं द्रौपदीं लात्वा सह पाण्डवैः कृष्णः परावर्त्तत । विजयसूचनाय पाञ्चजन्यमधमत् । एतस्मिन्नवसरे तत्रैव क्षेत्रे श्रीमुनिसुव्रततीर्थकर्तुः पार्श्वे देशनां शृण्वन्नासीत्कपिलो वासुदेवः । स मुरारेः शङ्खध्वनिं श्रुत्वा मनसि शशङ्के - यदपरः कोऽप्यत्र वासुदेवोऽजायत । अतएव भगवन्तमपृच्छत्भगवन् ! किमत्र कश्चिदपरो वासुदेवो जज्ञे, यो मे शङ्खं दध्मौ । भगवानुवाच - कपिल ! एकस्मिन् क्षेत्रे युगपदुभौ तीर्थङ्करौ वासुदेवौ वा न भवतः । प्रयन्तु जम्बूद्वीपस्थो भरत क्षेत्रीयः कृष्णस्त्वमिव समृद्धिशाली वासुदेव: पद्मनाभेन हृतां कौन्तेयपत्नीं लातुमत्रागात् । सएव पद्मनाभं विजित्य परावर्त्तमानः शङ्खेन जयध्वनिं विततान । एतन्नि शम्य तीर्थङ्करमभिवन्द्य तत उत्थाय सदृशं वासुदेवमागतमवलोकितुमुदधेस्तीरमाययौ कपिलः । तावता कृष्णस्तु बहुदूरमुपयातस्तथापि तत्रोदधौ गच्छतां रथानामनेकवण मत्युन्नतां वैजयन्तीमालोक्य कपिलोऽपि शङ्खनादेन कृष्णमित्यभ्यधात् - सखे ! तत्र भवता सह मेलनाय समागच्छामि, अतस्त्वं तत्रैव क्षणं तिष्ठ । श्रीकृष्णोऽपि निजशङ्खनादेन कपिलमेवमसूचयत् - मित्र ! ममाप्यासीद् भवद्दर्शनौत्सुक्यम्, परमधुनाऽतिदूरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org