________________
द्वितीयं व्याख्यानम् ।
(५३) द्वारिकामागत्य सर्वमेतच्छीकृष्णं व्यजिज्ञपत्-वत्स ! रात्रौ सुप्तां द्रौपदी कश्चित्सुरो. ऽसुरो वा, राक्षसो विद्याधरो वाऽपाहरत् । कृष्णः किञ्चिद्विहम्य तामृचिवान्-अहमेक एव द्वात्रिंशत्सहस्रं स्त्रियो रक्षामि, ते सुतास्तु पञ्च, तथाप्येकां प्रेयसी रक्षितुं न प्रनभूवुः । कुन्ती पोचे-नेदानीमुपहासावसरः किन्त्वचिरादन्विष्य समानीयताम् । ततः कृष्णोऽपि बहुशः परिशोध्य तामलभमानो महतीं चिन्तामाप । तदवसरे नारदर्षिस्तत्रागात् । खिद्यमानं कृष्णमालोक्य खेदकारणमपृच्छत् । कृष्ण उवाच-नारदर्षे ! हस्तिनापुरे रात्रौ सुखसुप्ता द्रौपदी केनाप्यपाहारि, अनेकत्र भ्रमता त्वया कुत्रापि दृष्टा ? । नारदोऽवक्--आसीत्सा पापीयसी दैवादागतं साधुमपि नो भाषते स्म, न वाऽभिवादयते स्म, अतएवेदृग्दुःखेऽपतत् । मम तु तथापरिचिता नासीत्परन्तु धातकीखएडेऽमरकङ्कायां तादृश्यवैका सीमन्तिनी मयाऽदर्शि, को जानाति सैवाऽन्या वेति । वासुदेवो विवेद वदेतदमुनवाऽकारि, तत्रैव सा वर्तते, तत्र संशयो नास्तीति निश्चित्य सह पाण्डवैः ससैन्यः कृष्णः समुद्रतीरमाययौ । समुद्रोल्लङ्घनहेतवेऽष्टमं तपो विधाय लवणाधिपतिं देवं सस्मार। सोऽपि तदने प्रकटीभूय व्याजहे-हरे ! किमस्ति ते कार्यम् ?, अबदद्धरिःद्रौपद्याः केनापि दृताया: शुद्धिकृते धातकीखएडे यियासुरस्मि, अतो मे चमूभ्यः सागरे गन्तुं पन्थानं देहि । देवोऽजल्पत्-एतदर्थ तत्र गमनाय भवान् नोत्सहतामहमेव तत्र गत्वा द्रौपदीमत्रानीय तुभ्यमर्पयेयम् , भवदादेशेन सलोकं पद्मनाभं सागरे निपातयेयम्बा । हरिरगदत्-देव ! त्वमेतत्कत्तुमर्हसि मनागपि नात्र संशये, परन्तु स्वयं तत्र गत्वा विपक्षपदं जित्वा तामानयानि चेन्महती कीर्तिरपि स्यादतो नः पराणां रथगमनमार्ग वितरतु । ततः सुस्थितदेवप्रदत्तमार्गेण पाण्डवैरनुगतः श्रीकृष्णः समुद्रमुल्लङघ्याऽऽमरकङ्कामागत्य क्वचिदेकत्र रम्योद्याने तस्थौ । ततो दारुकं सारथिं दूतं विधाय तदभ्याशं प्राहिणोत , सोऽपि दूतस्तत्पार्श्वमागत्य निर्भीकः पादोपरि पादं निधाय ध्रुवौ वक्रीकृत्य तमेवमभाषिष्ट-पद्मनाभ ! श्रीकृष्णो वासुदेवस्त्वां मन्मुखेन यदुवाच तदाकर्णय, त्वं हि चौरवद्रात्रौ सुप्तां पाण्डवप्रयेसी द्रौपदीमपजहर्थ, तदतीवगहितं चकर्थ । यद्यप्यद्यापि किमपि गतं नास्ति, अतोऽत्राऽऽगताय मह्यं तामर्पय । तच्छ्रत्वा पद्मनाभः कोपाटोपं वितन्वन्नुवाच-अरे ! किमहं प्रत्यर्पणाय तामपाहरं यदेवं भाषसे, अपसर स्वस्वामिनं ब्रूहि-यच्छक्तिं बिभरते चेद् युद्धाय सजताम् , अहमपि चत्रियोऽस्मि, मनागपि ततो नैव विभेमि । इत्थमाभाष्य निर्भयं च दृतं विससर्ज, दूत आगत्य सकलं तद्भाषितं श्रीकृष्णमुवाच । तच्छ्रुत्वा दुःसाध्यो रोगो यथौषधिमन्तरा न नश्यति, तथाऽयमपि दुर्घायुद्धमेव कामयते, इति भाषमाणः कृष्णः समराय सजितोऽभवत् । पद्मनाभोऽपि सह सैन्यगणैस्तदभिमुखं युयुत्सुराययौ । तस्मिन्नवसरे पाण्डुपुत्रा ऊचु:--स्वामिन् ! वयममुना साकं योद्धं समराङ्गणे ब्रजामः । तत्राऽस्माकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org