________________
श्रीकल्पसूत्रार्थप्रबोधिनी. गात्, तदा कूपवासिना पृष्टः-भ्रातः ! क ते वासः, कुतो वाऽऽगम्यते ?; सागरवासी जजल्प-बन्धो ! रत्नाकरे निवसामि, तत एवाऽऽगच्छामि च । पुनरवोचत्कृपवासीसागरः कियानस्ति ?, तेनोक्तं महीयान् ! कृपददेरो निजाची प्रसार्य जगाद-इयन्मात्रो वत्तते किम् ?, नहि नहि स तु महानस्ति । तेन हस्तौ पादौ च वितत्य न्यगादि-तहि किमेतावानस्ति ?, तेनोक्तम्-मित्र ! उदधिर्महाप्रमाणो वर्त्तते । ततः स्वकूपे परित उत्प्लुत्य जजल्प-किमियन्मात्रोऽस्ति ते समुद्रः १, विहस्य सागरवासिनोक्तम्-इतस्तु बहुविपुलो वर्तते । ततः कूपमण्डूकोऽवदत्-इतोऽपसर, यतोऽमुष्मान्मत्फालतो व्यायतं कापि किमपि नैव विद्यते । राजन् ! त्वमपि तद्वदेवेयतीरेव स्त्रीः पश्यन् वेत्सि-यन्मदीय दारेभ्यो विशिष्टा कापि कामिनी जगत्यां नास्ति । परन्तु हस्तिनापुरे निवसतां पाण्डवानां प्रेयस्या द्रौपद्याश्चरणाङ्गुष्ठे यावती भा वर्त्तते, तावती द्युतिरेतासां वदनेऽपि नैवा. स्तीति व्याहृत्य नारदः स्वस्थानमगमत् । इतश्च पद्मोत्तरो राजा तद्रूपमोहितस्तल्लाभोपायान् विचिन्तयंस्तां विना चात्मानं निष्फलं जानन् यदा कमपि सुलभमुपायं नापश्यत् , तदा तदर्थमष्टमतपसा पूर्वभवसखं देवमाराधयामास । स देवः प्रत्यक्षीभूय तमुवाचसखे ! मामधुना किमर्थं सस्मर्थ ?, राजोवाच-द्रौपदी विना मे राज्यं जीवितश्च विफलायते, अतस्त्वं तामानीय मम समर्पय । देवोऽवदत्-सखे ! सा खलु सतीनामग्रणीवर्ति, जात्वपि शीलं नो भक्ष्यति तर्हि मुधा तामत्रानीय किं स्यात् १, इत्थं बहुवारितोऽपि पद्मोत्तरो यदाग्रहं नामुश्चत्तदा देस्तत्र गत्वाऽवस्वापिनी निद्रां वितत्य सुखसुप्तां तां पल्यङ्कसहितामुत्पाव्य पद्मोत्तरस्य वाटिकायां मुमोच । जगाद च-राजन् ! त्वमेतन्महदकार्य मया कारयाञ्चकर्थ, अतः पुनरीदृशकार्यकरणाय मां मास्मार्षीः, स्मरिष्यसि चेत्तथापि नैवाऽऽगमिष्यामि, इत्याभाष्य देवः स्वस्थानमाययौ । द्रौपदी च यदा जजागार तदैवं ध्यातुं लग्ना-यदत्र को मामानीतवान् ?; तदा पद्मनाभस्तामेवं बभाषे-अयि सुभगे ! अलमिदानीं शोकेन यतस्त्वं देवतया भोगाय मयैवात्राऽऽनायितासि, अतएव मया साध विषयसुखं भुव, मदनशरपरिपीडितं दासमिव रतिं याचमानं मां सुखय । द्रौपदी जगाद-षण्मासपर्यन्तं मन्नामापि मा गृहाण, यतो मामनुगन्तारः पञ्चपाण्डवा महौजसो विश्ववन्द्यः श्रीकृष्णश्च विद्यन्ते । यद्यते नो शोधयिष्य. न्ति । इयता समयेन, तर्हि यथा निगदसि तथा भविष्यति पद्मनाभोऽपि कोऽप्येतस्याः शुद्धिकृते नात्राऽऽगन्तुमर्हति, हठाद्रागोऽपि नोत्पद्यत इति मनस्यवधार्य तदुक्तिमुररीचके । तदनु तां द्रौपदी सौधे स्थापयामास । तत्र च तिष्ठन्ती सा षष्ठं तपो विदधती पारणादिवसे चाऽऽचाम्लं कर्तुमारेमे । इतश्च जाते प्रभाते शयनागारे प्रेयसीमपश्यन्तः पाण्डवास्तन्माता च दुःखीभवन्तः सर्वत्र दिक्षु तां गवेषयितुं जविनो जनान् प्रेषयाश्चक्रिरे । यदा च तस्याः शुद्धिः कुत्रापि नैव लेभे, तदा कुन्ती स्वयमेव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org