________________
द्वितीयं व्याख्यानम् ।
( ५१ )
ष्णकपिलयोर्वासुदेवयोः शङ्खाभ्यां मिथो मिलितं युगपदेवेति महदाश्वर्यमजायत । तथाहि
काम्पीलनगरे द्रुपदराजस्य चुलडी नाम्नी पट्टराज्ञी वर्त्तते, तस्याः कुक्षिजा द्रौपदी विद्यते, तदुद्वाहाय पित्रा महीयान् स्वयम्बरो रचितः । नानादेशीया निमन्त्रिता राजानो राजकुमाराच तत्राऽऽजग्मुः । हस्तिनापुरतः पञ्चपाण्डवा अपि समायातास्तेषु पार्थेन राधावेधे साधिते द्रौपदी वरमालां तद्ग्रीवायामचिपत्, परन्तु प्राग्भवे तया पञ्चभर्त्तृनिदानमकारि, तस्मादेकापि सा माला पञ्चधाभूय पञ्चानामपि ग्रीवामभजत । एषा द्रौपदी प्राग्जन्मनि नागिला ब्राह्मणी, सैकदा धर्मरुचिमुनये कटुतुम्बकायाः शाकं दत्तवती । तदशित्वा मुनिरम्रियत, तदाऽऽचार्यो। नागिला साधुहत्याकारीति लोकानुवाच । ततस्तां भर्त्ता गृहान्निर्वासितवान् । सा स्वैरमटाट्यमाना मृत्वा नरकमधिगतवती । ततश्युत्वाऽनेकतिर्यगादियोनौ समुत्पद्य कस्यचिदेकस्य श्रेष्ठिनः सदने रूपवती सुकुमालिकानाम्नीदुहिताऽभवत् । तत्रत्येनैव केनचिन्महेभ्यपुत्रेण परिणीता, स तस्यामेव रात्रौ तां स्पृशमेव बहुदाहज्वरेण परिपीडितोऽभूत् । अत एन विषकन्यां मत्वा त्यक्त्वा च स्त्रालयमाययौ । ततः शोचन्ती सा पित्रा केनचिद् भिक्षुकेण परिणायिता ।
नापि समुज्झिता, दुःखाद्वैराग्यं नीता सा सुकुमालिका साध्वीभूय गुरुणा वारितापि वने तप्तुं गता । तत्र तपस्यन्ती सा पञ्चपुरुषैरनुगतामेकां वारवधूमपश्यत् । तदेयं भवान्तरे मे तपसोऽस्य प्रभावात्पश्ञ्च भर्त्तारः स्युरिति निदानमकृत । प्रान्ते च निरशनेन मृत्त्रेशानदेवलोकमगच्छत् । ततश्च्युताऽत्र द्रुपदात्मजाऽस्ति पुरा यदकरोनि दानं तत एवैकापि माला पञ्चधा बभूव । तदाऽऽकाशे दैवी वागभूत्-यदियं द्रौपदी पञ्चप्रिया भूत्वापि सतीमतल्लिका भविष्यतीति । ततस्तां पञ्चापि पाण्डुपुत्राः परिणीय हस्तिनापुरमानीय तथा साकं सुखमनुभवन्ति स्म । तत्रैकदा नारदर्षिव्यमिवर्त्मना धर्मराजपरिषदि समागतस्तदा सकला अपि नृपादयस्तमभ्युत्थानादिना सच्चक्रिरे । तत उत्थाय द्रौपदीभवनमगात् । तमागतं साऽसंयतत्वान्न ववन्दे, नाऽऽनर्च, नवाऽभ्युदतिष्ठत्, नवा किमप्यवादीत् । ततस्तेन रुष्टेन ध्यातम् - यदेषा पञ्चभर्त्तृत्वादख दर्प विमार्च,
एनां केनाप्युपायेन महासङ्कटे पातयानि चेदीप्सितं सिध्येदिति निश्चिय धातकीखण्डीयप्राच्यभरत क्षेत्रे ऽमरकङ्कापुरि कपिलवासुदेवस्य सेवको राजा पद्मनाभः सप्तशतसीमन्तिनीभिः साकमधिवनं क्रीडन्नासीत् । तत्र समये समायातं नारदमर्घ्यादिदानेन सन्तोष्य किती प्रासङ्गिकीं वार्तां पप्रच्छ - नारद ! मामकमित्रान्तः पुरं कुत्राप्यन्यत्र व्यलोकि १, स्त्रीलुब्धमवगत्य तं नारदो वक्कुमारभत - राजन् ! एवं पृच्छया त्वमवश्यं कूपमण्डूक इव लक्ष्यसे - यत्कश्वित्सागरवासी मण्डूकः कूपमण्डूकान्तिकमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org