________________
(५०)
श्रीकल्पसूत्रार्थप्रबोधिनी. रनुगता आगत्य मिथिलामरौत्सुः । कुम्भराजोऽपि तैः सत्रा योद्धं लग्ना, परमेनं ते क्षणादेव जिग्युः । विजिते च तस्मिन्नन्तःप्रविशतस्तान् राज्ञः कस्याश्चिदास्या मुखेन सा कुमारीति व्याहृतवती-यद् भवद्भिर्मद्रत्नशालायामागन्तव्यम् । तदाकये ते पदराजानः षड्भिद्वारैस्तत्राऽऽययुः । तत्र तस्याश्चित्रमालोक्य सर्वे व्यामोहमापुः । तत्रावसरे मल्लीकुमारी झटित्यागत्य तच्छिरस आवरणमपाकरोत्तदा तन्मध्यादुद्भूतदुर्गन्धेन व्याकुलीभवन्तस्ते नासिका सङ्कोचयन्तस्थूत्कारं कर्तुं लग्नाः । तदा मल्ली तानवादीत्-भो राजानः ! यूयमेवं मा कुरुत, मनसि विचारयत, यदियं रत्नमयी प्रतिमाऽचेतना वर्तते, तत्र प्रत्याहिकैकग्रासमात्राम्ननिक्षेपेण यदीग्दुर्गन्ध उद्गच्छेत्तर्हि या चेतना प्रतिघस्रं सेटकानं खादति, तस्या मलमूत्रमय्या अङ्गतः कियानुद्गच्छेत् ? । अविचारयन्तो भवन्तो बहिरेव विषकुम्भं पयोमुखमिव सुन्दरं विदन्तो मुधा मलमूत्रक्लिन्नायामपि रामान्धाः कथं भवथ १, इत्थं प्रतिबोधिताः श्रावितप्राग्भवाः समुत्पन्नया जातिस्मृत्या स्वस्वप्राग्भचान् प्रेक्षन्त । अवादिषुस्ताम्-धन्यतमे ! त्वमधुनाऽमुष्मादपारात्संसारसागरादनायासेन नस्तारयेति । साऽचक्-इदानीं यूयं स्वस्वसदनं बजत, यदा मे केवलज्ञानमुत्पद्यत सदाऽऽगन्तव्यं भवद्भिः, दास्यामि तर्हि वो दीक्षाम् । तयोक्तं श्रुत्वा ते यथाऽऽगतास्तथा ययुः स्वस्वनगरम् । इतश्च मल्लीकुमारी सांवत्सरिकं दानं दत्त्वा मार्गशीर्षमासीयैकादश्यां दीक्षामलासीत् । तस्मिन्नेव दिवसे केवलज्ञानमुदपादि । तदनु तान् परिमत्राएयपि दीक्षयामास, चकार च तान् गणधरान्मल्लिनाथो भगवान् , ईयिवांश्च तस्मिन्नेव मवे मोचम् । अयमेकोनविंशतितमः स्त्रीवेदी तीर्थङ्करोऽभवद्, एतस्य समवसरणे स्त्रीणां परिषदग्रे, पुंसां समज्या पश्चादुपविशति स्म ।
३ पुराऽन्यस्य कस्यापि तीर्थेशितुर्गर्भापहारो नो बभूव, परमस्यामवसर्पिण्यां भगवतो महावीरस्य नीचकर्मोदयतो गर्भव्यत्यासोऽजनीत्याश्चर्यम्।
४ प्राकस्यापि तीर्थकृतो देशना निष्फला नो बभूव, किन्तु श्रीमहावीरप्रभुः केवलीभूय प्रथम एव समवसरणे धर्मदेशनामदात्, परमेतया कोऽपि न प्रतिबोधादि लेभे । इत्थं श्रीमहावीरस्य देशना विफलाऽभूदिति तुरीयमाश्चर्यम् ।
५ एकद्वीपस्य वासुदेवो द्वीपान्तरं पुरा कोऽपि न वाज, परमस्यामवसर्पिण्यां श्रीकृष्णो द्रौपद्या अर्थे धातकीखण्डमगमत् ,तदा श्रीकृ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org