________________
द्वितीयं व्याख्यानम् ।
(४६) राज्ञा पृष्टः-श्रेष्ठिन् ! त्वमने देशं भ्राम्यसि, कुत्र किमाश्चर्यमालुलोकिषे, । अन्नकोऽवक्-स्वामिन् ! अन्यत्र कुत्रापि तादृगत्यद्भुतं नापश्यम् , केवलं मिथिलायां कुम्भराजस्य पुत्री मल्लीनाम्नी या विचकास्ति, तस्या रूपं लावण्यं तारुण्यमद्राक्षम् । किमधिकं वर्णयामि तद्रपम् , तादृशी सैवैका जगत्यामस्ति द्वितीया कापि नास्ति, नासीत् , नाग्रे भाविनीति तथ्यमवेहि । इत्थं तद्वणनश्रवणेन प्राक्तनप्रेम्णा च तद्गतमनाश्चन्द्रयशा राजापि तदैव कुम्भराजपार्श्वे दूतं प्राहिणोदबोधयच्च मे मल्लीकुमारी देहीति २. इतश्चैकदा मल्लीकुमायोस्ते कुण्डले तुत्रुटतुः, तदा राजा निपुणान् स्वर्णकारानाढूय समादिशत्-इमे कुण्डले पुरेव निर्मान्तु । ते जगदुः-स्वामिन् ! नैते मनुष्यनिर्मिते ' किन्तु देवनिर्मितेऽत इमे केऽपि मा योजयितुं न प्रभवेयुः । ततः प्रकुपितेन नरपालेन निकाशितास्ते सर्वे स्वर्णकाराः काशीमाययुः । तत्र च शङ्खराजा प्राक्षीत्-यत्कुतो भवतो निष्कासितवान् ?, ते जगदुः-राजन् ! अस्मद्राजस्य मल्लीकुमारी लोकोत्तररूपलावण्यशालिनी वर्ति, तदीये कुएडले देवदत्ते दैवाद्भग्नेऽभूताम् । ते सन्धातुं क्षितिपतिरस्मानादिदेश, परन्तु देवनिर्मितत्वात्तत्सन्धानमसाभिर्नाऽकारि, तेनैव हेतुना राजा नो देशादतित्यजत् । इत्थं तद्पप्राशस्त्यं निशम्य तां परिणिनीषू राजा शङ्खस्तद्याचनायै कमपि चतुरं नरं तत्र सम्प्रेष्य कुम्भराजमसूचयत्-यन्मया सह निजपुत्रीमुद्वाहयेति ३. इतश्चतुभिर्मासैरुद्वर्तनस्नानादिना धौतगात्रां सुसजितां सदस्यागतां पुत्रीमालोक्य रुक्मी नरपतिः कमपि दूतमपृच्छत्-भो ! यादृग् रूपं मे तनया बिभर्ति, ताहग्रूपवती काप्यन्या कामिनी त्वयाऽऽलोकितावा दृष्टा ?, न्यगदद्वृतः-मिथिलायां मल्लीकुमार्या यादृग्रूपं तल्लक्षांशमप्येषा नो धत्ते । तच्छुत्वा रुक्मीनरनाथोऽपि दूतमुखेन कुम्भक्षितीशं तामयाचत ४. इतश्चैकदा कुम्भराजपुत्रश्चित्रशाला निरमीमपत्, तत्र मल्लीकुमार्या अङ्गुष्ठमवलोक्य तस्याः सर्वाङ्गसुन्दरी प्रतिमामनुरूपांस शिल्पी व्यलिखत् । एकदा तद्भ्राता तत्र शालायां रममाणस्तां प्रतिमामुदीक्ष्य समुद्भतप्रभूतकोपश्चित्रकचुदेक्षाङ्गुष्ठमचिच्छिदत् । तदनु स कारुहस्तिनापुरमागत्याऽदीनशत्रुणा राज्ञाऽमिलत, अकथयञ्च मल्लीकुमार्या लोकोत्तरं तनुसौठवम् । तदाकण्यं तेनापि दूतमात्मीयं प्रेय कुम्भराजस्ता याचितः ५. अथैकदा धर्मचर्चायां मल्लीकुमार्या निर्जिताऽवज्ञाता काचित्परिव्राजिका प्रकुपिता कपिलनगरे समागता सा जितशत्रो राज्ञः सदसि मल्लीकुमार्या रूपं भृशं प्रशशंस । तच्छुत्वा तां परिणेतुं कुम्भराजापार्श्वे स्वकीयं दूतं प्राहिणोत् ६. ___इत्थमेकदैव तेषां परणामपि क्षितिभुजां दूतास्तत्र मिलिताः । तांश्च राजा कुम्भ इत्यभ्यधात्-यदहं तेभ्यः पुत्रीं नैव दित्सामि, यूयं यात, तदा ते दूता आगत्य स्वस्वराजं तदाचचचिरे । तच्छत्वा रोषादेकदैव ते षडपि भूमीपतयः स्वस्वसैन्यगणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org