________________
(४८)
श्रीकरुपसूत्रार्थप्रबोधिनी. बलजीवो मिथिलानगर्यां कुम्भराजस्य प्रभावत्या राज्याः कुक्षौ मल्लीकुमारीरूपेणाऽवावातरत् , तदा तन्माता चतुर्दशस्वप्नानैक्षिष्ट । तदनु आश्विन शुक्लैकादृश्यां तां प्रासूत । अनुक्रमेण शशिकलेव बर्द्धमाना यौवनं वयोऽधिगता सती सा कुमारी तान्प्राग्भवीयान् सखीन् पृथक् पृथगुत्पन्नान् प्रेक्षितवती । ततस्तेषां प्रतिबोधनायाऽशोकवाटिकायामेकं सद्रत्नजटितं सुन्दरं षड्वारमयं भवनमचीकरत, सत्र स्वर्णमयी रत्नजटितामात्मनः प्रतिमा स्थापितवती । यदा यदा साऽऽदत्तदा तदैक कवलं, प्रत्यहं तत्प्रतिमायामूनिकृतविले क्षिपति स्म।
इतश्चैकदाऽयोध्यायां सुप्रतिबद्धेन राज्ञा यक्षार्चनं व्यधायि । तत्र सुरचितामेको मनोहरी कुसुमस्रजमालोक्य राजा दृतमवादी--भोः ! ईदृशं सन्दरं दाम काप्यालोकि ? तदोक्तं तेन-मल्ली राजकुमारी रूपाद्देवीच लक्ष्यमाणाऽतिचतुरा वतते, तत्पाणिपद्मविरचितसुललिताया मालाया लक्षांशमपीयं स्रङ् नार्हति । तच्छ्रुत्वा प्राग्भकीयप्रेम्णा तां याचितुं कुम्भराजप्रति कमप्यात्मीयं दूतं प्राहिणोत् । ततः स तत्रागत्य तमभ्यवात्-राजन् ! अयोध्यापतिर्मन्मुखेन त्वां मल्लीकुमारीमभ्यर्थयते , इतश्च चम्पानगरीनिवासी कश्चिदहनकनामा महेभ्यवर्षः क्रयाण कैः पोतं भृत्वा गम्भीरपत्तनं प्रत्यचालीत् । तत्रावगरे देवेन्द्रः सभायामईन्नकमेवं प्रशशंस-यदधुना भारते खल्नेतत्समोऽपरः कोऽपि श्रावको धर्मे दाढयं नीतो नैवास्ति । तदाकण्र्य कोऽपि सुरः तदसहमानस्तत्रागत्य महोपसर्ग पारेभे, जायमाने च तस्मिन्नन्नकः सागारिकमनशनं विधाय निश्चलमना वीतरागमेव केवलं स्मर्नु लग्नः । देवश्च बहुविधान् विघ्नानकरोत्तथापि धर्मादचलन्तं तमालोक्य जगादैवम्-भोरहन्नक ! जिजीविषसि चेत्तूर्णं वीतरागस्य स्मरणं विमुश्च, देवान्तरश्च भज । नोचेदिदानीमेव सपोतं त्वां समुद्रान्तः पातयिष्य मि, तत्र संशयं माकृथाः, इति निगद्य सपोतं मज्जयितुमचेष्टत लोका ऊचिरे-अहनक ! यथाऽसौ देवो भणति तथैव कुरु, अगतिकान्नस्त्रायस्व, नो चेत्सर्वे मरिष्याम इत्थं सर्वैरुदितोऽप्यसौ यदा मनामपि न चचाल, तदा स देवः सन्तुष्य तस्मै दिव्ये कुण्डलाऽऽभरणे दत्त्वा पादयोः पतित्वा जगाद-अहेनक ! क्षम्यतां ममापराधस्त्वमेव लोके धन्योऽसि, तवैव जीवनं सफल मस्ति । अहमिन्द्रमुखातावकी प्रशंसामाकर्ण्य जातशङ्कोबहूंस्ते विघ्नाघ्नानरवम् । इतिसुरोदितं निशम्याऽर्हन्नकोऽवक-देव! नूनमहं लोकद्वयश्रेयस्करमाईतं शाश्वतं धर्ममाश्रित्य प्राणान्तेऽपि धर्मान्तरं कथमाश्रयेय ? । इति निगदिते पुनरस्मै कुण्डलयुगलं प्रदाय सुरः स्वस्थानमगच्छत् । ततोऽईनकः गम्भीरपत्तनमागत्य व्यापृत्य धनमभिमतं समय॑ क्रमेण मिथिलापुरीमाससाद । तत्र च स देवार्पित कुण्डलयुगलं क्षितिपाय डुढोके । राजा च तदपूर्वमाभरणं मल्लीकुमाथै ददौ । नृपानुमतोऽईनकश्चम्पापुरीमाययो, तत्रापि स्वमहीजानये तदपरं कुण्डल युगलमुपदीचक्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org