________________
द्वितीयं व्याख्यानम् ।
(४७) गोपितो न भवति, तथा त्वमप्यमुनाऽऽत्मानं गोप्तुं नाहसि । स एवाऽसि त्वं तत्र नास्ति संशयः । ' गोशालोऽजल्पत्-अरे! यावत्वं जीविष्यसि, तावदहं सुखी न स्याम् । इति तुच्छोक्तिमाकण्ये सुनतत्रसानुभूती जगदतुः-गोशालक ! एवं गुरुं तिरस्कुर्वस्त्वं कथं न पसे । इत्थं वारयन्तौ तावुभावनगारौ तेन तेजोलेश्यया भस्मसाच्चक्राते, उभावपि तो साधुमरणेन स्वर्ययतुः । भगवतोक्तम्-अरे ! किमकारि, धिक् स्वामीग्गर्हितकारम् । तदा भगवता तिरस्कृतः स भगवत उपरि तेजोलेश्यां मुमोच, सा च भगवन्तं त्रिःपरिक्रम्य तस्यैव दुर्धियो गोशालस्य शरीरे प्राविशत् । तया दग्धीभूतः स विविधां वेदनामनुभूय सप्तमरात्रेऽम्रियत । भगवानपि तत्तापेन षड्मासान् रक्तातिसारां महती वेदनामनुबभूव । ततो रेवतीश्राविकागृहादनगारकरादानीतं बीजपूरपाकं जग्ध्वा भगवानारोग्यवानभवत् । यस्य नामस्मरणादितरेषां सकला उपद्रवा विलीयन्ते, तस्य जगत्पूज्यस्य भगवतोऽपीदृगुपसर्गोऽजनीत्याश्चर्यम्प्रथमम् ।
२ प्रायशो नहि कश्चिदपि तीर्थकृत् स्त्रीत्वेन समुत्पद्यते । किञ्चैकोनविंशतितमस्तीर्थङ्करो हि वर्तमानायामस्यामवसर्पिण्यां स्त्रीत्वेन समुत्पन्न इत्याश्चर्यम् । तथाहि
एतस्मिञ्जम्बूद्वीपे महाविदेहक्षेत्रे सलिलावतीविजये वीतशोकानगों ' बलराजा' राज्यं कुरुते । तस्यास्ति धरणी महिषी, महाबल नामा पुत्रो वत्तेते । तेन यौवने पञ्चशतकन्या रूपवत्यः पित्रा परिणायिताः । समागते वार्धक्ये राजा पुत्राय राज्यं दया दीक्षामुपादाय चारित्रं निरतिचारराराध्य मोक्षमध्यगच्छत् । इतश्च पृथ्वी शासतो राज्ञो महाबलस्याऽचलधरणाभिचन्द्रपूर्णवसुवैश्रमणा इति षमित्राण्यासन् । अर्थकदा ससापि ते सखायः श्रीगुरोः पार्थे श्रुतधर्मा विषयविरक्ता दीक्षां ललुः । परस्परमेवं नियमं कृतवन्तस्ते-यदस्माभिः सर्वैः षष्ठाष्टमादितपांसि तुल्यान्येव कर्तव्यानि नो न्युनाऽधिकानि । तेष्वेकदा महाबलो मनस्येवं व्यमृशत्-यदहमेतेभ्योऽधिकं तपः कुर्याम् । ततोऽसौ पारणाकाले शिरोवेदनाच्छाना तदकृत्वा दिवसान्तरे च तैः सहैव तपो विदधदिशतिस्थानकं तपःकृतवान्, तेन तपसा तीर्थकृतां नामकमोर्जितवान्, परममुना कपटेन स्त्रैणमपि कर्माऽबध्नात् । प्रान्ते च सप्ताप्यते द्वैमासिकी संलेखनां विधाय चतुरशीतिलक्षपूर्वमायुरुपभुज्य मृत्वा द्वात्रिंशत्सागरोपमायुषो विजयन्तनामानुत्तरविमाने समुदपद्यन्त । ततश्युत्वाऽचलजीवोऽयोध्यायां सुप्रतिबद्धनामा राजाऽभूत् । धरणजीवश्वम्पापुर्या चन्द्रयशानामा भूपतिरभवत् । अभिचन्द्रजीवः काश्यां शङ्खनामा क्षितीशो बभूवान् । पूरणजीवः श्रावस्त्यां रुक्मिनामा भूजानिरभूत् । वसुजीवः कुरुदेशेऽदीनशत्रुनामा भूभी जज्ञे । वैश्रमणजीवः कपिलनगरे जितशत्रुनामा प्रजेश्वरोऽभवत् । महा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org