________________
( ४६ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
तेजोलेश्यामपि विदाञ्चकार, इतरेभ्यश्च निमित्त विद्यादिकमध्यगीष्ट । सोऽयं मुधैक जिननाम बिल्लोके विहरति । इति प्रभुमुखाच्छ्रुतां वार्त्ता गौतमो बहूनामग्रेऽजल्पत् । क्रमशो लोकमुखादात्मनो गर्हिता मेनां वार्त्ता निशम्य गोशालको भगवते भृशं चुकोप, द्वेषञ्चाधिकं भगवत्युवाद |
अथैकदाऽऽनन्दनामा शिष्यो गोचर्यै गतवान् । तमाहूय चैवं सोऽवदत्-भो आनन्द ! एकं दृष्टान्तं सावधानमना निशामय - एकदा चत्वारो वणिजो धनार्जनाय विविधैः क्रयाणकैः परिपूरिताञ्कटान् आदाय देशान्तरं चेलुः । मार्गे क्वचिन्महारण्ये संप्राप्ताः पिपासया व्याकुलीकृताः कुत्रापि जलमपश्यन्तश्चत्वारि वल्मीकशिखराणि ददृशुः । तदुपरि वृक्षोद्गमावलोकनेनाऽवश्यमत्र वारिणा माव्यमिति निश्चित्यैकस्मिञ्छखरे त्रोटते तन्मध्यादतिशीतलं मिष्टं वारि निरगच्छत् । तज्जलं पीत्वा पात्राणि च पुरयाञ्चक्रुः । पुनरपरं तत्रोटयितुं यदा प्रववृतिरे, तदैकेन वृद्धेन व्याहारि-यत्समीहिते सिद्धेऽपरं मा स्फोटयत, तथापि ते द्वितीयमपि शिखरं स्फोटयामासुः । एतस्माच्च निर्गतं स्वर्णं विलोकमाना अधिकं लुलुभिरे । ततः पुरेव तेन वृद्धेन बहुधा वार्यमाणास्ते तृतीयमपि स्फोटयन्ति स्म, तस्माद्रत्नानि लेभिरे । ततः प्रवृद्धलोभग्रस्तास्ते भूयोभूयस्तथैव वारिता अपि तुरीयं स्फोटयामासुः । तस्माच्च महाकायो दृष्टिविषः सर्पः प्रादुरासीत्स च त्रीनपि तान् दृशैव पञ्चत्वमनैषीत् । दयया हितशिक्षाकरणेन च तमेकं वृद्धमजहात् । इत्थं यस्ते धर्माचार्यः सोऽपि तावत्यां संपद्भ्यां सत्यामप्यसन्तुष्यॅल्लोकानामग्रे मामकमवाच्यं जल्पति । अतोऽहं सञ्जातप्रभूतप्रकोपस्तमवश्यं निजोग्रतेजसा भस्मसात्करिष्यामीति तत्र गत्वा सत्वरं तमाचक्ष्व । स्वान्तु वृद्धं वणिजं भोगीव जीवन्तमेव हास्यामि । इत्थं गोशालेनाऽभिहित आनन्दो मुनिस्ततः समागत्य तदुदितं भगवन्तं न्यगादीत् । भगवतोक्तम् - आनन्द ! त्वं याहि, गौतमादीन् कथय, यदा मे कुशब्यो गोशाल आगच्छेत्तदा तेन सत्राकेनापि साधुना न भाषितव्यम्, यतो नूनमत्रागत्यकमप्युपसर्ग विधास्यति, समागते तस्मिन् मौनमाश्रित्य सर्वैः स्थातव्यम् । यो वच्यति तमवश्यं धक्ष्यति, तस्मादितस्ततः सर्वैरपसर्त्तव्यमेव श्रेयस्करं भविष्यति । ' इत्थं भगवता शिक्षिते सर्वैरन्यत्र गत्वा स्थितम् । किन्तु सर्वानुभूतिसुनचत्रनामानौ मुनी भगवतः पार्श्व एव तस्थतुः । तावद् गोशालस्तत्रागत्य भगवन्तमेवमवादीत् - रे काश्यप ! गोशालो
I
शिष्य इति यनिगदसि तत्तु तथ्यमेव, किन्तु स त्वदन्तेवासी ममार, नेदानीं जीवति । श्रहन्तु तदन्य एवास्मि, केवलं तदीयां तनुं परीषदसहनसमर्था मत्वा तत्र प्रविष्टोऽस्मि । तथासति यद् ब्रूषे गोशालो मङ्खलीसूनुरिति तत्कथं मया सोढव्यम् । भगवता न्यगादि - अरे ! किमेव जन्पसि, यदि कश्चिच्चौरः कुत्रापि चौर्य कृत्वा पृष्ठे समायान्तं पुरुषमवलोक्य तृणेन कराङ्गुन्या वा स्वं गोपायेत्परमेतावता स यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org