________________
(४५)
अथ द्वितीयं व्याख्यानं प्रारभ्यते ।
--
--
१७ शक्रविचिन्तनमाश्चर्यकथनश्च--- ___ अथ पूर्वाभिमुखीभूय शक्रसिंहासने समासीनः सौधर्मेन्द्रो मनस्येवमचिन्तयत्-यदेते तीर्थकर्तारश्चक्रवर्तिनो वा, वासुदेवा बलदेवा वा शूद्राऽधमकृपणनिर्धनभिक्षुकद्विजाऽल्पकुटुम्बानां कुले नाविर्भवन्ति, नाविर्भूताः, नाविर्भवितारः । किन्तूभलोगराजन्येक्ष्वाकुक्षत्रियहरिवं. शादिविशुद्धजातिकुल एवाऽवतरन्ति, अवातरन् , अस्तरिष्यन्ति च । सतीदृशे नियमेऽपि भगवाञ्छीवीरो विप्रकुलेऽवातरदित्यद्भूतमजायत, यस्मादनन्ताऽवसर्पिण्युत्सर्पिण्योर्गतयोरीदृशं किञ्चिदाश्चर्य जायते । अतएवैतस्यामवसर्पिण्यामपि दशाश्चर्याणीमानि जातानि ।
१ पुरा कस्यचिदपि तीर्थकर्तुः केवले समुत्पन्ने नाऽभूदुपसर्गः । भगवतो महावीरस्य कैवल्यज्ञानप्राप्तेः पश्चादपि शिष्याभासेन गोशालकेनोपसर्गोऽकारि । यथा
एकदा श्रीमहावीरः श्रावस्त्यां नगर्या समवसृतः । तत्राऽस्म्यहं 'जिन' इति लोकान् कथयन् गोशालोऽप्यागात् । तदा नगयाँ सर्वे खल्वेवमूचुर्यदत्र जिनद्वयी वर्तते-तत्रैको महावीरः, द्वितीयो गोशालकश्चेतिगोचर्यं गतो गौतमः श्रुतवान् । तदनु शङ्कमानो गौतमः समागत्य भगवन्तं तदवोचत, पप्रच्छ च-विभो ! कोऽसौ गोशालो यः स्वस्मिन्जिनतां ख्यापयति ?, भगवानाख्यत्-गौतम ! नायं जिन:, किन्तु शरवणग्रामे कश्चिन्मवलीनामा शनिग्रहप्रतिग्रहाही भरडजातीयो निवसति, सुभद्राभिधाना तस्य भार्याऽस्ति, तयोरेव पुत्रोऽसौ वर्त्तते । ब्राह्मणगोशालायामुत्पन्नत्वाद् 'गोशाल' इत्याख्यां लेभे । निर्धनत्याद्भिक्षमाणः कथमपि कालं गमयन्मम शिष्योऽभूत् । छद्मावस्थस्य मम पार्श्वे षड्वर्षाणि स्थित्वा मत्त एव सर्वाणि पठित्वा च बहुश्रुतोऽभवत् ,
१ आदिनाथेनाऽऽरक्षकत्वेन स्थापिता लोका उग्राः । २ गुरुत्वेन स्वीकृता भोगाः । ३ मित्रत्वेन स्थापिता राजन्याः। ४ श्री ऋषभदेववंश्या इक्ष्वाकवः । ५ प्रजाजनत्वेनाsभिमताः क्षत्रियाः । ६ प्राग्भवारातिसुरानीतहरिवर्षक्षेत्रीययुगलिकस्य वंशो हरिवंशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org