________________
(४४)
श्रीकल्पसूत्रार्थप्रबोधिनी. क्वचिदन्यत्र स्थानमलभमानः शशकः समागत्य तस्थौ । तमालोक्यानुकम्पनन साधं द्वयहं तथैवैकेन चरणेन तस्थाथ। यदा दवः शशाम, जग्मुश्च ते शशकादयः सर्वे स्वस्वस्थानम् । तदा तावत्कालिकक्षुत्तुषोः पीडया व्याकुलतां नीतः शोणितभरं स्तब्धीभूतं तच्चरणं भूमौ कथ. मपि स्थापयन् गिरिवि क्षितौ पेतिथ । ततः सदयः शतायुस्त्वं ममर्थ, सएव त्वमधुना श्रेणिकराजस्य धारिणीगर्भजो मेघकुमारनामा पुत्रोऽसि । यदि तदानी तिर्यग्भवेऽपि धर्मार्थं प्रचुरक्लेशानसहथास्तहीदानी साधुचरणसङ्घटनाद्विदूरसे किम् ? । यदेते साधवो विश्वपूज्या जायन्ते, अमीषां मयुगलरजांसि सुकृतिनामेव लगन्ति । अतएव मनासि मनागघि दुःखं ना::नेतव्यमिति भगवद्वाक्यं श्रुत्वा जातिस्मृतिरुत्पेदे। ततस्तेन प्राक्तनाः सर्वे भवा ददृशिरे ! ततो भगवञ्चरणकमलयोः पतित्वा संयमे च दाढ्यं नीत्वा ईदृशमभिजग्राह-' यदद्यारभ्य यावज्जीवमहं दृशौ विहाय सर्वाङ्ग व्युत्सृजामि ।' ततो निरतिचारं संयम परिपाल्य प्रान्ते मासिकी संलेखनां कृत्वा विजयनाम्न्यनुत्तरविमाने देवो बभूव । ततश्च्युत्वा महाविदेहक्षेत्रे मोक्षमधिगमिष्यति ।
दानादिधर्मप्ररूपकत्वाद्धर्मचक्रवर्ती, जलधौ पततां द्वीप इव भवाब्धिपतितप्राणिनामाश्रयदातासि । इत्थंभूताय, विमुक्तकर्मणे, सर्वज्ञाय, सर्वदर्शिनेऽप्रतिहतनिश्चलानन्तज्ञानदर्शनधराय, वीतरागाय भगवते जिनाय चरमतीर्थकृते श्रीमहावीराय ते नमोऽस्तु । गर्भगतो भगवानिहस्थितं मां प्रेक्षतामिति वारत्रयमजल्पत् ।
इति श्रीवीरजिनशासनस्फारशृङ्गारहार-सुविहितसूरिपुरन्दरनन्दनवनाऽऽरामविहारि-शिथिलाऽऽचारप्रचारतमोहारिजैनाचार्य-भद्दारक-श्रीमद्विजयराजेन्द्रसूरीश्वर-सङ्कलितायां श्रीकल्पसूत्रार्थप्रबोधिनी नाम्न्यां टीकायां पीठिकासहितं प्रथमं व्याख्यानं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org