________________
पीठिकासहितं प्रथम व्याख्यानम् ।
(४३) निद्रामलभमानः समुद्विग्नमना एवं दध्याथ-यदहं प्रभाते वेषमेनं विहाय भगवन्तमापृच्छय गेहं गन्तास्मीति, तत् किं सत्यम् ? । मेघर्षिरगदत्-भगवन् ! सत्यमेवैतत् । प्रभुरगादीत्-मेघर्षे ! तवैतन्नो युज्यते । यतः प्राणिनो नरके तिर्यगादियोनौ वा यावन्ति महान्ति दुःखानि भूयोभूयश्चिरं सहन्ते, सेहिरे, सोढारश्च, तदने खल्वेतादृशां दुःखानां का गणना ?, को नाम मूर्खः स्याद्यश्चक्रवर्तिसाम्राज्यमपहाय दासत्वमनुबुभूषेत्, किमधिकं भणामि-वह्नौ प्रविश्य मरणमेव वरं, परं गृहीत. व्रतभग्नत्वं न वरम् । येऽत्र लोके संयम यथावदवन्ति सहन्ते च बहुशः क्लेशांस्तेऽवश्यं स्वर्गापवर्गादिसुखानि लभन्ते । त्वमेव भवान्तरे धर्मार्थं महत्कष्टमन्वभूस्तस्यैतावन्ति फलान्यमुष्मिञ्जन्मन्यभूवंस्ते । तांश्च भूतपूर्वान्भवान्मत्तः शृणु-अमुष्माद् भवात्तृतीये भवे वैताढ्याऽचलोपकण्ठे सहस्र करिणीपतिः षड्दन्तो धवलः सुमेरुप्रभनामा गजेन्द्रो जज्ञिषे । तत्रैकदा दावानले सर्वत्र प्रसृते बिभ्यत्पलायमानः कान्दिशीकः क्वचिदेकत्र सरसि तृषार्तः प्रविशन्नेव मार्गाज्ञानतया कर्दमस्य बाहुल्याच गाढं निमग्नतामीयिवान् । तत्राऽऽगतेन केनचित्पूर्ववैरिणा दन्तिना दन्तप्रहारैर्जर्जरीकृतः । प्रतिक मशक्तः सप्ताहं महती वेदनामनुभवन् परिपूर्णे च विंशाधिकशतायुषि मृत्वा विन्ध्याचलीयभूमौ चतुर्दन्तो लोहितः सप्तशतहस्तिनीभ" मेरुप्रभनामा दन्तावलेपोऽभूः । तत्राप्येकदा कचिल्लग्नं दावानलमवलोक्य ते जातिस्मृतिरजायत । तेन त्वं पूर्वभव. मुदीक्ष्य तद्भीतिमुदेष्यन्तीं निराकत्तुं योजनपरिमितं मण्डलमकृथाः । तत्र समुत्पद्यमानं तृणवल्ल्यादिसर्वं वर्षाणामादिमध्यावसानेषु समुन्मूलयन्नासीः । तत्राप्येकदा महीयान् दवाग्निर्लग्नस्तद्भीत्या सर्वे वन्या जीवास्तत्रैव मण्डले समाजग्मुः । त्वमप्यागत्य तत्रैव तस्थिवान् । तिलमात्रोऽप्यवकाशो नाऽतिष्ठत् , सर्वत्र तनुदीर्घजीवाते कदाचिद् गावकण्डुति चिकीर्षुस्त्वमेकं पादमुत्थाप्य यावत्तदकृथास्तावत्तत्रैकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org