________________
(४२)
श्रीकल्पसूत्रार्थप्रबोधिनी. र्शनलुण्टितधनदापनादिना तमुपकुरुते, तथा त्वमपि कषायहृतधर्मरत्नान्मिथ्यात्वपिहितविवेकदृशः प्राणिनः श्रुतज्ञानसद्धर्ममोक्षमार्गप्रदर्शनैरुपकुरुषे, सारथिरिव पथच्युतमेनं जीवं सन्मार्गमानयसि मेघकुमारवत् । तथाहि-राजगृहनगर्यां श्रेणिकभूपतेर्धारिण्याः कुक्षौ मेघकुमारः पुत्ररूपेणाऽवततार । तदा राड्या ईदृशो दोहदोऽजनि-यदहं प्रावृषि राज्ञा सह गजारूढा सती वने क्रीडाव । ततोऽभयकुमारः पूर्वभवे सखायं कमपि देवमाराध्य तं दोहदं परिपूरयामास । इत्थं परिपूर्णदोहदा सा राज्ञी नवमे मासे पुत्रमसोष्ट । जाते च तस्मिन् प्रहृष्टो राजा महोत्सवं विधाय मेघकुमार इत्यभिधामकरोत् । क्रमशः समधिगतयौवनवया अधीतविद्यः स पित्राऽष्टाभिः कन्याभिरुद्वाहितस्ताभिः स्वैरं सुखमनुभवन्नासीत् । अथैकदा तत्र भगवान् वीरः समवस्मृतः । श्रेणिकादयः सर्वे पौरजनास्तमभिवन्दितुं तत्राऽऽजग्मुः। मेघकुमारोऽपि तत्रागात्, पपिवांश्च भगवन्मुखचन्द्रच्युतां देशनामयीं सुधाम् । ईयिवांश्च प्रतिबोधम् , पितरौ समापृच्छय श्रीवीरकरकमलेन दीक्षितोऽभूत् । नवदीक्षितमेनं साध्वाचारशिक्षणाय स्थविरान्तिके न्यस्तवान्भगवान् । रात्रौ संस्तारवेलायां क्रमेण सकलेभ्यः पश्चान्मेषकुमारस्याधिद्वारं संस्तारक आगात्। तत्र च प्रस्रवणार्थमुत्तिष्ठतां साधूनां गमाऽऽगमाभ्यां पादाहतो मनागपि निद्रामलभमानो सकलामपि रजनीमजागरीत् । क्लिष्टोऽसौ दध्यौ‘धिङ्मां योऽहं पुरा सुकोमलशय्यायामस्वाप्सम् ' सोऽहमधुना भूमौ शये, तत्राप्येकस्यां रात्रावियानुपसर्गो जज्ञे, तर्हि कियन्तं कालमेवंविधां कदर्थनां सहितास्मि ?, दीक्षापालनं सर्वथा दुष्करमेव । ततोऽहं प्रातरुत्थाय भगवन्तमापृच्छ्य गृहमेव गमिष्यामि ।' इत्थमवधार्य प्रगे च रजोहरणादिलात्वा भगवतः समीपमागात् । तन्मनोगतं भावं विदित्वा भगवान् मिष्टवाक्यैस्तमभ्यधात्-महर्षे ! त्वमस्यां रात्रौ गमाऽऽगमौ विदधतां साधूनां क्रमरजसा तच्चरणघातेन च खिद्यमानः क्षणमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org