SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पीठिकासहितं प्रथमं व्याख्यानम् । ( ४१ ) अथ देवानन्दाकुक्षौ विलसन्तं भगवन्तं महावीरं विलोक्य प्रावृषि बालकदम्ब इव स्फुरद्रोमप्रकरः, प्रमोदातिशयविकसितकमलाकारवदननयनः, श्रीमद्भगवद्दिदृक्षयोद्भूतप्रभूतसम्भ्रमोच्चलितवलयवीरवलयकिरीटकुण्डलयुगलः, सौधर्मेन्द्रस्त्वरया सिंहासनादुत्थाय पादपीठादवततार । तदनु वैदूर्यनीलरिष्टाञ्जनादिजटितचारुकारुविरचितभासुर पादुके विहाय, विधाय चोत्तरासङ्गं कृताञ्जलिर्भगवदभिमुखं सप्ताऽष्टपदानि सोऽगच्छत् । तत्र वारत्रयं भूमाव लग्नवामजानुर्दक्षिण जानुस्पृष्टभूतलोमूर्धानं भूमौ निवेश्य ततः किञ्चिदूर्ध्वभूय कटककेयूरादिप्रदीप्रनखत्रभाभासितमञ्जलिं शिरसि धृत्वा तमेवमस्तावीत् - " 9 भगवन् ! तस्मै ते नमोऽस्तु, यस्त्वं त्रिभुवनजनविहितार्चनं लभसे, रागद्वेषारातिसमूलविघातकारित्वादरिहन्तासि, रागद्वेषरूपकर्मवीजाभावेन भवप्ररोहाऽभावादरुहन्ताऽसि, आदिकरोऽसि, चतुर्विधसङ्घरूपतीर्थस्थापयितासि, श्रीसङ्घस्य तारयितासि, परोपदेशं विनैव बुद्धोऽसि, अनन्तगुणाधारत्वादुच्यसे पुरुषोत्तमः कर्मबीरदलनात्पुरुषसिंहोऽसि, पुरुषवरपुण्डरीकोऽसि । यथा पङ्के जातं जलेनैव वर्धितं पद्मं तदुभयं भित्त्वा तदुपरि वर्त्तते, तथा त्वमपि कर्मकर्दमे जातो भोगवारिवर्धितोऽपि तदुभयमुक्तोऽसि यथा वा गन्धहस्तिगन्धेनाऽन्ये दन्तिनः पलायन्ते, तथा त्वत्प्रभावेणापि दुर्भिक्षादिरोगाः प्रतिवादिनश्च पलायन्तेऽतस्त्वं पुरुषवरगन्धहस्तितुल्योऽसि, चतुस्त्रिंशद्गुणातिशयस्याल्लोकोत्तमोऽसि, चराचरजीवनाथोऽसि, अप्राप्तस्य प्रापणं योगं प्राप्तस्य रक्षणं क्षेमञ्च समेषां वहसि, दयालुत्वाज्जगद्धितैषी, मिथ्यात्वतिमिरापहत्वालोकप्रदीपोऽसि, रविरिव जगद्भासकोऽसि, सप्तभयनाशकत्वाद् भयदोऽसि, चक्षुः कल्पश्रुतज्ञानदोऽसि यथा चौरादिभिर्धनमपहृत्य नयने पिधाय कचिदमार्गे क्षिप्तं दैवात्तत्राऽऽगतः सुसाधुर्दृग्बन्धनमोचनमार्गद Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy