________________
(४०)
___ श्रीकल्पसूत्रार्थप्रबोधिनी. 'यदि कार्तिकः स्वपृष्ठोपरि स्थालं धरेत्तर्हि तत्र गत्वा खादेयमिति हेतोस्त्वया तथानुष्ठेयम् ।' इति राजनि निगदति सति कार्तिक आहस्म-स्वामिन् ! मम सम्यक्त्वदतस्तथाकरणं न घटते, तथापि भवदाज्ञयाऽकार्यमप्येतद्विधास्यामि । ततः समागते तापसे करागलीयके स्थितामाईतीम्प्रतिमां नमस्कृत्य पृष्ठोपर्थत्युष्णपायसपूर्णस्थालं धृत्वा कार्तिकोऽतिष्ठत् , तापसश्च भोक्तुमलगत् । तत्रावसरे सदति पायसं भुञ्जानोऽङ्गल्या च तस्य नासिकां घर्षयन् सर्वेषु लोकेषु मां प्रणमत्सु त्वमेक एव न प्राणमत्, तत्फलं दर्शयामि भूयो भूयोऽधुनानमयामीति चेष्टमानः सुखेन जघास । तस्मिश्च भुक्त्वा स्वस्थानं गतवति कार्तिकपृष्ठचर्मणि तापातिशयात्संदग्धे संलग्नं नत्स्थालं महता कष्टेन राजा नीचैरुत्तारयामास । तदा व्यचिन्ति कार्तिकेन-यद्यहं प्रागेव दीक्षामग्रहीष्यं तीदृशं पराभवमद्य नाऽद्रक्ष्यम् । ततः समुत्पन्नवैराग्यः स वसूत्तरसहस्रवणिक्पुत्रैः सह मुनिसुव्रतस्वामिपार्श्वे दीक्षां लात्वा द्वादशाङ्गीमधीत्याऽर्कवर्षाणि चारित्रं परिपाल्य सौधर्मेन्द्रो बभूव । इतश्च गैरिकतापसोऽप्यज्ञानतपःकरणेन मृत्वा तस्यैव वाहन ऐरावतोऽभूत् । तदा तं सौधर्मेन्द्रमवधिज्ञानेन कार्तिकजीवं विदित्वा तद्भीत्या पलायितुं लग्नः, परन्तु बलात्तं निगृह्य शक्रस्तदुपर्यारोह । शक्रं विभीषयिषुः सरूपद्वयमधरत् । शक्रोऽपि तावद्रूपं यावदकरोत्तावद्गजश्चत्वारि रूपाणि व्यकरोत् । तदनु सौधर्मेन्द्रोऽपि चतुर्धाभूत्वाऽवधिना च प्राग्भवं विदित्वा भृशं तर्जयन्नवदत्-रे गैरिक ! इदानीं मुक्त्वा क गमिज्यसि ?, किमिदानी प्राग्भवीयं न स्मरसि यन्मे पृष्ठोपरि सन्तप्तं स्थालं निधाय पायसमघसः सएवाऽधुना मम वाहनतां नीतोऽसि तर्हि यदर्जितं तत्सुखेन भुझ्व, मा भैषीरिति शक्रोक्तमाकर्ण्य स्वमन्तुं क्षमयित्वा निजाऽकृत्रिमं रूपं धृत्वा तदानुकूल्यमुररीचक्रे स गैरिको गजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org