________________
पीठिकासहितं प्रथमं व्याख्यानम् । सिंहासनोपरि विहरति । अस्ति चाऽयं द्वात्रिंशल्लक्षविमानानाम् , षट्त्रिंशत्सहस्राधिकत्रिलक्षागामात्मरक्षकदेवानाम् .चतुरशीतिसहस्रसामानिकदेवानाम् , त्रयस्त्रिंशत्रायस्त्रिंशकानाम् , सोमयमवरुणकुबेरेतिचतुर्लो. कपालानाम् , पद्मा शिवा शची अञ्जुः अमला अप्सराः नवमिका रोहि. णीत्यष्टानामग्रमहिषीणाम, बाह्यमध्यमाऽऽभ्यन्तरेतितिमृगां परिषदाम् , गान्धर्वनाट्याऽश्वगजरथ भटवृषभेतिसंज्ञकानां सप्तानीकिनीनाम् , तदधिपतीनाम् , अन्येषामपि सौधर्मकल्पवासिबहुदेवदेवीनां सर्वेषामधिपतिः, पोषयिता च । स शकेन्द्रो महता वेण जायमानं विविधनाटकं गानं मृदङ्गवीणादिवाद्यानाञ्च श्रुतिमुखं रवंशृण्वन् दिव्यं भोगम्भुङ्क्ते । स हि द्विनयनोऽप्यनुचरीभूतकार्यार्थनैकटिकपञ्चशतदेवलोचनयोगात्सहस्राक्षत्वं विति, महामेघानां तद्वश्यत्वान्मह्यते पूज्यते वा मघवत्वम् , पाको नाम दैत्यस्य शास्तृत्वात्पाकशासनवम्, पूर्वस्मिञ्जन्मनि श्राद्धपञ्चमप्रतिमाशतवारसमाचरणाच्छतक्रतुत्वमलभत । एतच्च कार्तिकश्रेष्ठिभवापेक्षम् । तथाहि
पृथ्वीभूषणनगरे प्रजापालो नाम राजा राज्यं करोति स्म । तेन मानितो महर्द्धिकः सुश्रावकः कार्तिकनामा महेभ्यः प्रतिवसति स्म । सहि श्रावकीयैकादशप्रतिमासु पञ्चमीम्प्रतिमां शतकृत्वः कृतवान् । तेन लोके शतक्रतुरिति ख्यातिमलभत । तत्रैकदा गैरिकनामा तापसो मासोपवासी तत्रागत्य बहिरतिष्ठत् । तमभिवन्दितुं नृपादयः सर्वे पौरा आबालवृद्धा जग्मुः । केवलं शुद्धसम्यक्त्ववानेकः कार्तिकश्रेष्ठ्येव नागात् । तेन हेतुना तदुपरि स तापसो भृशं चुकोप । तमेकदा निजगृहे भोक्तुं नरनाथो न्यमन्त्रयत् । तदोवाच सः-राजन् ! यदि कार्तिकमहेभ्यः स्वपृष्ठे पायसभृतां स्थाली बिभृयात्तर्हि त्वदोकासि भृञ्जीयेति श्रुत्वा तथेति प्रतिपद्य राजा निजसदनमागात् । ततः कार्चिकमाकार्य जगाद-श्रेष्ठिन् ! मम गुरुगरिकपरिव्राजको मया निमन्त्रितोऽजल्पत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org