________________
द्वितीयं व्याख्यानम् । सीत् । एकस्मिन्नेव सदने ते द्वे न्यवसताम् । परन्तु लोभादेकदा देवानन्दा त्रिशलाया रत्नकरण्डिकामहार्षीत् । ततस्तयोमिथः कलहोऽभव त्तथापि तदर्पणमकुर्वाणा सा देवानन्दा तत्कर्म बबन्ध । अतएव त्रिशलायामेव श्रीवीराजेनसंक्रमणस्य शक्रादेशः। अमुना च सर्वेविदाङ्गुर्वन्तु ' यदत्र यो यादृशं कर्म बध्नाति भवान्तरे स तदवश्यं भुङ्क्ते ।'
शक्रेण समादिष्टो हरिणैगमेषी कृताञ्जलिः शक्रादेशं शिरसावधार्य कौबेरी दिशमागत्य वैक्रियशरीरकरणार्थं प्रायतत । तदनु दण्डाकारमूर्ध्वमधश्चाऽऽयतं जीवप्रदेशकर्मपुद्गलबजे शरीराबहिर्निष्काश्य हीरक १ वैदूर्य २ लोहिताक्ष ३ मसारगल्ल ४ हंसगर्भ ५ पुलक ६ सौगन्धिक ७ ज्योतिरसा ८ ऽञ्जना ६ ऽञ्जनपुलक १० जातरूप ११ सुभगा १२ ऽङ्क १३ स्फटिक १४ रिष्टक १५ कर्केतनेति जात्यानां रत्ना नामसारपुद्गलाँस्त्यजन् सारान् पुद्गलानादत्ते । ततो मूलरूपं तत्रैव न्यस्योत्तरवैक्रियरूपं ध्रियते । ततो मत्र्ये चण्डो-चपला-जयन्ती-वरितेतराऽऽशुदेवगत्याऽसंख्यद्वीपान् सागराँश्च लवयन्नस्मिँञ्जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे ऋषभदत्तद्विजगृहे सुखसुप्ताया देवानन्दायाः समीपमागत्य भगवन्तं प्रणम्य सकलमवस्वापिन्या गाढं शाययन, अशुभानि पुद्गलानि दूरीकृत्य शुभानि च तानि प्रक्षिप्य भगवन् ! 'आदिश' इत्याभाष्य कृताञ्जलिरबाधं यथा तथाप्रभुं लात्वा क्षत्रियकुण्डनगरे सिद्धार्थराजस्य भवने यत्र त्रिशला शयानाऽऽसीत्तत्राऽऽगत्य परिजनाँश्चाऽवस्वापिन्या गाढं स्वापयनशुभपुद्गलबजं बहिष्कृत्य शु. भानि पुद्गलानि क्षिप्त्वा सुखेन भगवन्तं त्रिशलागर्भे निहितवान्।
१ षट्कलाधिक २८३५८० योजनमिते क्षेत्रे पदैकन्यासे चण्डा, त्रिंशत्कनाधिके ४७२६३३ योजनमिते क्षेत्रे पदैकन्यासे चपजा, चतुष्पञ्चाशत्कलाधिके ६६१६८६ योजनमिते क्षेत्रे पदैकन्यासे जयन्ती, अष्टादशकलाधिके ८५०७४० योजनप्रमाणे क्षेते पदैकन्यासे त्वरिता गतिर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org