________________
( ६२ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
याssसीदमुष्या गर्भे पुत्री तां नीत्वा देवानन्दाया गर्भेऽक्षिपत् । इत्थं शक्रादेशाद गर्भसंक्रमणादिकं विधाय हरिणैगमेषी पूर्वोक्तया देवस्था संख्येयानां द्वीपोदधीनां मध्यभागेन लक्षयोजनप्रमाणमेकपदन्यासं कुर्वाणस्तत्र सौधर्मदेवलोके सुधर्मावतंसकविमाने सुधर्मासभायां समे त्य शक्रसिंहासनाऽऽसीनं शक्रेन्द्रं निजकृतं सर्वं न्यवेदयत् ।
१ इत्थं तयोर्मिथो गर्भपरिवर्तन मकारि तत्तु न कोऽप्यपश्यत्तर्हि कथङ्कारं तत्प्रमात्वमुपगच्छेदिति केचिच्छङ्केरन् । तेभ्य एवमुत्तरं देयम् - बलदेवस्य देवकीगर्भतोऽपहृत्य रोहिणी - गर्भे संक्रमणं भागवते दशमस्कन्धे द्वितीयाध्याये लिखितं यथा प्रामाण्यं वहते, तथा भगवतो महावीरस्यापि गर्भापहारः प्रमाणमिति मन्तव्यम् । किञ्चाऽन्यदप्याश्चर्यकरं वः पुराणादौ वर्त्तते यथा विशालापुर्यां वनाभिधो राजा पर्याप्तकोशो निवसति, परमेतस्याऽपुत्रत्वान्महती चिन्ताऽवर्त्तत । अतः पुत्रकामोऽसौ नरपतिः षोडशशतपत्नीरकरोत् । परन्तु भाग्य - दोषादेकापि राज्ञी यदा गर्भ नो धृतवती तदाऽपुत्रस्य मे गतिर्नो भविष्यतीति चिन्तया व्यश्रीभूतः कस्याप्युपदेशाद् ध्यशीतिसहस्रतपस्विन आमन्त्र्य विधिवदभोजयत, त्रयस्त्रिंशत्कोटिदेवाँश्चानर्च | तदपि पुत्रमलभमानो राजा तानवादीत् - तापसाः ! यूयं मुधैव वेषमेनं विभृथ, यतो युष्मासु समाराधितेष्वपि मे मनोरथावाप्तिर्नाऽभवत् । तदाकर्ण्य कश्चिदेकोऽवदत्राजन् ! जानाम्यहं पुत्रप्रदमुपायम् । त्वं याहि स्वर्णभाजने जलमानय, अहं तद्वारि मन्त्रयित्वा ते ददामि । या राज्ञी तञ्जलं पास्यति, सा ध्रुवं पुत्रं प्रसविष्यते । तच्छ्रुत्वा प्रमुदितो राजा तदैव स्वर्णपात्रे जलं समानाय्य तस्मै तपस्विने समर्पयामास । सोऽपि च जलं सम्यगभिमंत्र्य राज्ञे दत्तवान् । स राजापि स्वर्णपात्रस्थं जलं नात्वा स्वसदनमागात् । तदा सर्वा अपि राज्ञ्यः पुत्रप्रदमेतदिति ज्ञात्वा मह्यं देहीति नृपालमूचिरे । तञ्जिघृक्षया कलहायमाना - स्ता अवलोक्य नृपोऽचिन्तयत्- हंहो ! सर्वा एता मिथः कलहायन्ते, मयेदं कस्यै देयं कस्यै न देयम्, यस्यै न दास्यामि सा दुःखिनी भविष्यतीत्यवधार्य कस्या अध्यददत तल्लात्वा वस्त्रेण पिधाय शयनागारे स्थापितवान् । रात्रौ च पिपासाकुलो राजा दासीं जलमानेतुमादिशत्सापि मन्त्रितं वारि समानीय नृपाय दत्तवती । तन्निपीय राजा गर्भवान् बभूव । क्रमशस्तदृद्धौ सत्यां लज्जया सभायामागमनपि हित्वाऽन्तः पुरेव तस्थौ । ईदृशं त्रपास्पदं राज्ञः स्वरूपमवगत्य मन्त्री तानेव तपस्विन श्रमंत्र्य भृशमुपालब्धवान् - तपस्विनः ! यूयं किमिदमकृदुम् ?, तूर्णमत्रोपायं कुरुत । ततस्ते तापसास्त्रयस्त्रिंशत्कोटिदेवानाराधयामासुः, तदा देवैरभ्यर्थितः सुरनायकस्तत्रागत्य तदुदरं विदार्य बालं निष्काशितवान् । लोका ऊचिरे-यदुदरादसौ निरगात्स तु पुंस्त्वाद्धापयितुं नैवाईति । ततः स्वयमेवेन्द्रः स्त्रीरूपं विधाय स्तनं पायितवान्, तस्य च' मांधाता' इत्यभिधामकरोत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org