________________
(३६)
श्रीकल्पसूत्रार्थप्रबोधिनी. १, हृदयं २, नासिका ३, हनुः ४, भुजौ ५ एतानि पञ्चदीर्घाणि च वर्तन्ते, ते दीर्घजीविनो महाधनिनः पराक्रमिणश्च जायन्ते । ललाटवक्षो वदनानीमानि त्रीणि यस्य विस्तीर्णानि स्युः, स राजा भवति । यस्य ग्रीवाजघनमेहनत्रितयो लम्बो भवति स पुमानोजस्वी जायते, राज्यं च कुरुते । यस्य च सत्वं स्वरो नाभीचैतानि गम्भीराणि स राजा तस्य प्रधानो वा जायते । येषु यादृशानि लक्षणानि जायन्ते, तेषु तादृशमेवाऽऽचरणमपि वर्त्तते । यथारूपं तथा लक्ष्मीः, यथा चाकृतिस्तथा गुणा भवन्ति पुंसाम् । यश्चातिहस्वः, अतिदीर्घः, अतिस्थूलः, कृशतमः, अतिश्यामल:, अतिगौरः, एते षट् सत्त्ववन्तो भवन्ति । यो हि सद्धर्मः, सुभगो, नीरोगः, सुस्वप्नः सुनयी, सुकविर्भवति स पुमानात्मनः स्वर्गगमाऽऽगमौ प्रथयति । यो वै निर्दम्भः, सदयः, दानी, दान्तो दक्षः, सदा सरलः, स मानवीं योनि व्यनक्ति । यश्च मायिको लुब्धः, क्षुधातुरः, सालसो बह्वाशी भवति, स तिर्यक्त्वं ख्यापयति । यः सरागी खजनद्वेषी दुर्भाषी मूर्खसङ्गी स स्वस्मिन्नारकीयतामेव प्रकटयति । यस्य पुंसो दक्षिणे दक्षिणावर्तो जायते स शुभंयुर्यस्य वामे वामावर्तः सोऽति गर्हितो यस्य च दिगन्तरे पावितः स मध्यमो भवति । करतलेऽरेखे बहुरेखे वा प्राणिनो निर्धना अल्पायुषो दुःखिनश्च जायन्ते । अनामिकान्त्यपर्वणः कनिष्ठाया अधिकवे लक्ष्मीर्मातृपक्षश्च वर्धते । येषां पाणिपादयोस्तले कमलाङ्कुशवज्रच्छत्रशङ्खमीनादिरेखाः स्युस्ते धनिनो जायन्ते । द्वात्रिंशल्लक्षणेषु सत्सु राजा, एकत्रिंशत्सु तेषु भोगिनः, त्रिंशत्सु तेषु मध्यमः, इतो न्यूनेषु साधारणो जनो भवति । यस्य करतले मणिबन्धादुस्थितापितृरेखा, करभाच्च विनिर्गता वित्ताऽऽयुषो रेखाद्वयी तिस्रोऽपि वा तर्जन्यङ्गुष्टयोरन्तरं यान्ति, परिपूर्णाः परिपुष्टा भासु
राश्च सत्यस्तेषामायुर्वितं गोत्रञ्च सम्पूर्णम्भवति । जीवितरेखा यावतीरङ्गुलरितिकामात शरदर्दा तावती पञ्चविंशतिर्ज्ञातव्या । दक्षाङ्गुष्ठमध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org