SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पीठिकासहितं प्रथमं व्याख्यानम् । (१५) राजहंसीव गच्छन्ती भर्तुः पार्श्वमागत्य जयविजयशब्दाभ्यामेनं वर्द्धयन्ती सती, पथि श्रमोद्भूतवेदविन्दून् व्यपगच्छन्ती, भद्रासने समुपविश्य भर्तारं कृताञ्जलिरजल्पत्-स्वामिन् ! अहमस्यां रात्रौ हस्त्यादिचतुर्दशस्वप्नान् प्रैचिषि, तत्फलं मे किं भविता ?, प्रमुदितमनाः पुलकिताऽशेषगात्रः स ऋषभदत्तो विप्रस्तामेवमवादीत-प्रेयसि ! या कामिनी धन्यानेतान् प्रेक्षते, सा तूर्णं धनमङ्गलादिकं मनोवाञ्छितं पुत्रञ्चाधिगच्छति । त्वमपीदृशस्वप्नावलोकनेन सार्धसप्तदिनाधिकनवमासात्परं मृदुतरपाणिपादमहीनाङ्गं समस्तशुभलक्षणलक्षितं परिपूर्णपञ्चेन्द्रियं सलक्षणव्यञ्जनं सद्गुणाधारं समानोन्मानं पुत्रं प्रसविष्यसे, निरु पमं धनं सुखश्च लप्स्यसे। तत्र पुंसामधिशरीरं यत्सुकृतरेखादि तल्लक्षणं निगद्यते, ‘सहजं लक्षणमिति वचनात् ।' चक्रवर्तितीर्थङ्करयोदेहे वसूत्तरसहस्र, बलदेववासुदेवयोश्चाऽष्टोत्तरशतं लक्षणं जायते । इतरेषां छत्रम् १, पद्मम् २, धनुः ३, रथः ४, वज्रम् ५, कूर्मः ६, अङ्कुशः ७, वापी ८, स्वस्तिकः ९, तोरणम् १०, सरः ११, सिंहः १२, वृक्षः १३, शङ्खः १४, चक्रम् १५, गजः १६, समुद्रः १७, कलशः १८, प्रासादः १९, मत्स्यः २०, यवः २१, यूपः २२, स्तूपः २३, कमण्डलुः २४, गिरिः २५, चामरः २६, दर्पणः २७, वृषभः २८, ध्वजः २९, लक्ष्मीः ३०, माला ३१, मयूरश्च ३२, अमूनि द्वात्रिंशल्लक्षणानि भाग्यवतां पुंसां पाणितले पादतले च वर्तन्ते। येषां नख-चरण-हस्त-जिह्वौष्ठतालु-नयनप्रान्तानि सप्त रक्तानि भवन्ति, ते पुरुषा भाग्यभाजो जायन्ते; भुञ्जते च सप्ताङ्गां श्रियम् । येषां कक्षा-हृदय-ग्रीवा-नासिका-नख-मुखानीमानि षडुन्नतानि, दन्ताः-केशा अङ्गलिपर्वाणि नखानि त्वक्, इमानि पञ्च सूक्ष्माणि, नयने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy