________________
( ३४ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
वत्वेनोदपादि । ततो ऽस्मिन्नेव भरतक्षेत्रे छत्रिकापुर्यां जितशत्रुराजस्य भद्रारायाः कुक्षौ पञ्चविंशतिलक्षवर्षायुष्को 'नन्दन 'नामा राजपुत्रो जज्ञे । तत्र चतुर्विंशतिलक्षवर्षाणि गार्हस्थ्यं सुखमनुभूय पोटिलाचार्यपार्श्वे दीक्षां गृहीत्वा लक्षवर्षाणि चारित्रमवित्वा यावज्जीवं मासक्षपणमकरोत् । तेन समाराधितविंशतिस्थानकतपास्तीर्थङ्करनामकर्मनिकाचितमर्जितवान् । प्रान्ते मासमेकमनशनं विधाय शरीरमजहादिति पञ्चविंशतितमो भवः । ततः षटूविंशतितमे भवे प्राणतदेवलोके पुष्पोचरावतंसक विमाने विंशतिसागरोपमायुर्देवो बभूव । ततश्च्युत्वा मरीचिभवे विहितमदयोगेन नीचगोत्रकर्मोदयात्सप्तविंशतितमे भवे ऋषभदत्तविप्रस्य पत्न्या देवानन्दायाः कुक्षाववततार । इत्थं पुरा भरतचक्रिणा पृष्टो भगवाञ्छ्री ऋषभदेवो यदभ्यधान्मरीचिजीवो भविष्यति महावीरनामा तीर्थङ्करस्तत्सत्यतामाप |
१५ देवानन्दप्रति स्वप्नफलकथनादि -
अथासौ भगवान् महावीरो यदा देवानन्दागर्भमशिश्रियत, तदा देवलोकादहं व्योष्य इति जानन्नप्यसौ च्यवमानो नो विजानातिस्मि, एकसामयिकत्वात् । अनन्तरं देवलोकाच्च्युतोऽहं गर्भे संक्रान्तोऽस्मीत्यपि जानाति । यस्यां रजन्यां श्रमणो महावीरस्तस्या गर्भे सञ्चक्राम, तस्यां शयनीये नाऽतिसुप्ता नातिजाग्रती देवानन्दा ब्राह्मणी प्रशस्तान् कल्याणकारकान् सश्रीकान् मङ्गलमयान् धनधान्यप्रदांश्चतुर्दशमहास्वनानद्राक्षीत् । यथा - हस्ती १, वृषभः २, सिंहः ३, साभिषेकालक्ष्मीः ४, पुष्पमाला ५, चन्द्रमाः ६, सूर्यः ७, ध्वजः ८, पूर्णकलशः ९. सपनं सरः १०, सागरः ११, देवविमानम् १२, रत्नराशिः १३, निर्धूमवह्निश्च १४ । इमांश्चतुर्दशमहास्वप्नान् विलोक्य प्रबुद्धा मनसा मोमुद्यमाना निःसीमानन्दयोगाद् बालकदम्बकल्पविकसितरोमराजिः सन्तुष्टचित्ता सा तानशेषान् संस्मृत्य शय्याया उत्थाय निरुत्सुका चाञ्चल्यरहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org