________________
पीठिकासहितं प्रथमं व्याख्यानम् ।
(३३) द्राजा-मयि निद्राणे गाथकमेनं व्यस्त्राक्षीः। अथ जागृतः पुरेव गायन्तं तमवलोक्य शय्यापालकमगदत्-किं रे ! मयि सुप्ते कथमेनं न न्यवीवृत: ?, सोऽवक्-स्वामिन् ! श्रुतिसुखपारवश्यतया प्रभोरादेशमहं व्यस्मार्षम् । तदा प्रकुपितो राजा तच्छ्रवसोरत्युष्णशीशकं घारितवान्, तेन शय्यापालको मृत्वा नरकमगमत् । इत्थमसौ त्रिपृष्ठो वासुदेवभवे बहुविधघोरपापमर्जयश्चतुरशीतिलक्षवर्षमायुर्भुक्त्वाऽशीतिधनुःप्रमाणकं-- शरीरमत्याक्षीदित्यष्टादशो भवः । __एकोनविंशतितमे भवे सप्तमे नरके समुदपद्यत । ततो विंशतितमे भवे सिंहो जज्ञे । ततो मृत्वा तुरीयं नरकमशिश्रियत, इत्येकविंशतितमो भवः। ततो मृत्वा चिर संसारे भ्रामं भ्रामं रथनूपुरनगरे प्रियमित्रक्षितिपस्य विमलाराझ्याः कुक्षौ पुत्रत्वेनाऽवातरत् । पितृभ्यामचल इत्यभिधाऽकारि, क्रमशः शुक्लपक्षे शशधर इव प्रतिघस्रं वर्धमानः सकलकलाकुशलस्तारुण्यमीयिवान् । ततस्तस्मै राजा यौवराज्यं प्रायच्छत् । सचैकदा वने क्रीडन्ननुकम्पया पाशान्मृगं मुमोच । तेन च मनुष्यायुर्बबन्ध, प्रान्ते सुदीक्षित उग्रं तपस्तप्त्वा चक्रवर्तिपददायिकर्मोपाय॑ मासमेकं निरशनं विधाय ममारेति द्वाविंशतितमो भवः । ततश्श्युत्वा पश्चिममहाविदेहे मूकानगाँ धनञ्जयाभिधो राजास्ति, तस्य धारणी राज्यस्ति, तस्या गर्भे समुद्पादि । तस्मिन् गर्भगते धारणी चतुर्दशस्वप्नानपश्यत् । पूर्णे मासे शुभवेलायां सा राज्ञी पुत्रं सुषुवे, महतोत्सवेन पिता द्वादशेऽहनि प्रियमित्र' इति नाम ददे । तदनु षट्खण्डान् साधयित्वा चक्रवर्ती बभूव । प्रान्ते च पोटिलाचार्यसमीपे दीक्षां गृहीत्वा कोटिवर्षाणि चारित्रं परिपाल्य सकलं चतुरशीतिलक्षपूर्वमायुर्भुक्त्वा मृत्युमध्यगच्छदिति त्रयोविंशतितमो भवः । चतुर्विंशतितमे भवे शुक्राऽभिधे सप्तमे देवलोके सप्तदशसागरोपमायुर्दे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org