________________
(३२)
पीठिकासहितं प्रथमं व्याख्यानम् । दिशत् । ततो वारक्रमेण तद्रक्षणं तस्मिन् वत्सरे प्रजापतिराजस्याऽऽययौ । अतएव तत्कृते जिगमिषू पितरं त्रिपृष्ठो जगाद-त्वं मागाः, अहमेव व्रजामि । इत्थं राजानं निवार्य ज्यायसा भाविबलदेवेन गौत मजीवेनाऽचलाख्येन बन्धुना सत्रा ससैन्यः परिहितकवचो रथारूढश्चचाल । अथ रथरवमाकर्ण्य स केसरी रोषाद्रक्तलोचनो बहिरागत्य तस्थौ । तमालोक्य त्रिपृष्ठो व्यमृशत्-यदसौ पादचारी वर्तते, कवचं नो बिभर्ति, शस्त्रं वा नो धत्ते। अतो मयापि यानं कवचं शस्त्रञ्च विस्मृज्य रथादवतीर्य स्वयमेक एवाऽमुना योद्धव्यम् । तदनु रथादवतीर्य तमेवमजल्पत्-रे ! तूर्गमुशिष्ठ ममाग्रे समायाहीति निशम्य सिंहोऽपि युयुत्सुः सन्ननाह । ततो व्यासाननं जिघांसपा समागच्छन्तं तं विलोक्य त्वरया पूर्ववैरादोष्ठं गृहीत्वा विददार । विदीर्णवदनोऽपि स यदा व्यसुर्नाभूत्तदा त्रिपृष्ठस्याऽचलसारथिस्तमवादीत्-रे ! किं शोचसि ?, यथासि त्वं मृगाणामीशस्तथाऽयं त्वद्वन्तापि नराणामीशिता वर्त्तते, कश्चित्साधारणो ना न जघान । इति श्रवणानन्तरमेव मृगारातिर्मृत्वा नरकं ययौ । तच्छवञ्च ग्राममानीयपश्यतां लोकानामग्रे निधाय व्याजहार-यदमुं शालिनाशकं बहुजनधातिनं सिंहमहमहनम् । मद्दोर्दण्डप्रतापेनाऽश्वग्रीवभूपतिः सुखेन शालीनश्नातु । लोकमुखात्तन्निशम्याऽश्वग्रीवो राजा भृशं चुकोप । ततः ससैन्यस्तेन सत्रा योद्धमाययौ, प्रवृत्ते च परस्परं युद्धे निहते च दलद्वये जनसमूहे प्रचण्डभुजदण्डोऽसौ त्रिपृष्ठस्तत्प्रेषितेनैव चक्रेणाsश्वग्रीवस्य शिरश्चिच्छेद । निहते च तस्मिन् देव्यो जयजयारावं विदधत्यस्त्रिपृष्ठोपरि कुसुमानि विकीर्य जगदुः-यदमुके भरतखण्डेऽयमेव प्रत्यमो वासुदेवोऽजनीति । तदनु क्रमशः खण्डत्रयं संसाध्य वासुदेवोचिताऽसीमं सुखं बुभुजे । अथैकदा नाटके प्रारब्धे शय्यापालकमवादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org