________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(३१) रे ! इदानीमपि मामुपहससि तर्हि पश्य मे बलमिति जल्पन कराभ्यां शृङ्गं गृहीत्वा व्योम्नि नीत्वा भूमौ गामपातयत् । किश्चात्र जन्मनि मया यदकारि तपस्तत्प्रभावाद्भवान्तरे तव हन्ता स्यामिति निदानमकरोत् । तदनु कोटिवर्षाणि चारित्रमवित्वा प्रान्ते निरशनो ममारेति षोडशो भवः । सप्तदशे भवे सप्तमस्वर्गे सप्तदशसागरोपमायुष्कोदेवो जातः। ___ अथ पोतनपुरे प्रजापतिनाम्नो भूपतेर्धारणी नाम्न्या राझ्याः कुक्षौ चतुर्भिः स्वप्नैः संसूचितः सूनुरचलनामाऽजनिष्ट । तस्यैव राज्ञो मृगावती नाम्न्येका दुहिताऽऽसीत् । स चैकदा लग्नचिन्तायै सर्वैराभरणै श्वीनांशुकैश्च विभूषिता लसत्तारुण्य परिपूर्णा मात्रा नृपान्तिके प्रेषिता । तदा सदसि समायातां स्वपुत्रीमतिरूपवती तरुणीमालोक्य कामकिकरीभूतो राजा स्वयमेव तामुद्बोढुमचकमत । ततो लोकापवादभिया सभ्यानित्थं जगाद-सभ्याः ! अस्मद्राज्ये यदस्ति श्रेष्ठं वस्तु तत्केन भोक्तव्यम् ? तच्छ्रुत्वा सभ्या जगदुः-यद्भवति सारतरं जगत्यामस्यां तस्य भोक्ता भवानेवेति लोकैः कथिते राजाऽजल्पत्-यत्कथ्यते भवद्भिस्तत्तथ्यमेव, अतोऽहं सर्वतः श्रेष्ठमिदं कन्यारत्नमन्यस्मै नैव दित्सामि, किन्तु स्वयमेव परिणिनीषामीति व्याहृत्य तां परिणीय स्वैरं सुचिरं तस्यामरंस्त । अथ स्वर्गाच्च्युतो विश्वभूतिजीवो मृगावत्या गर्भे ऽवततार । तस्मिंश्चावतीर्णे मृगावती सप्तमहास्वप्नानद्राक्षीत् । नवमासपूर्ती सा पुत्रं सुषुवे । राज्ञा महामहश्चक्रे, विदधे च तदीयमाभिधानं त्रिपृष्ठ इति । अनुक्रमेणाऽसौ यौवनमापत्, इतश्च शङ्खपुरोपकण्ठे तुङ्गगिरिगुहायां विशाखनन्दिजीवो बभूव सिंहः । तस्यैव गिरेः समीपे तत्कालीनस्याऽश्वग्रीवाभिधप्रतिवासुदेवस्य क्षेत्रमासीत् । तद्रक्षकानशेषांश्च समागतान् पुरुषानजीघतत्स सिंहः । अतोऽश्वग्रीवो राजा स्वसेवकीभूतनृपाणामेवैकैकं प्रत्यब्दं तच्छालिक्षेत्रं गोप्तुं वारक्रमेण समा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org