________________
(३०)
पीठिकासहितं प्रथमं व्याख्यानम् । राजपुत्रोऽहं न क्रीडामि, तत्राऽसौ युवराजपुत्रो विश्वभूतिः स्त्रिया सह सदा रमते । अयुक्तमेतदत एनं निरुध्याऽहमेवात्र सस्त्रीकः क्रीडानि चेदरमित्यवधार्य नृपमुवाच-पूज्य ! अहं हि तत्रोपवने रिंसामि, अतो विश्वभूति निवारय । नृप आख्यत्-वत्स ! अहमचिरादेव केनापि व्याजेन ततस्तं निष्काश्य तुभ्यं तत्प्रदास्यानीत्याश्वास्य पुत्रमतूतुषत् । पश्चाद्राजा स्वयमेव सिंहनृपं निग्रहीतुं प्रयातीति सर्वत्र नगरे पटहं वादयामास । तदाकर्ण्य विश्वभूतिरवदत्-स्वामिन् ! वराकमेकं शृगालं ग्रहीतुं केसरी नैव प्रयाति, अतस्तत्र ते गमनं न घटते । अहमेव तत्र गत्वा बद्ध्वा तमत्रानेष्यामीति निगदन् सहसैन्यगणैर्विश्वभूतिस्तं सिंहराजमाक्रमितुं चचाल । गते च तस्मिंस्तत्पत्नी राजवाटिकातो निष्काश्य विशाखनन्दिनं तत्र न्यवासयन्नृपतिः । कियद्भिर्दिनैस्तमानीय नृपाय समर्पयामास । नृपादयो भृशं प्रशशंसुः । अथ पुरेव तस्यां वाटिकायां क्रीडायै प्रविशन् विश्वभूतिः प्रतिहारिणा न्यवारि । व्याहारि च-भवानिदानीमन्तः प्रवेष्टुं नार्हति, यदस्यां विशाखनन्दी क्रीडन्नास्ते। तदा राज्ञः प्रपञ्चं विदित्वाऽसारममुं संसारं धिक्कुर्वन् व्यरंस्त, तथापि विपक्षपक्षदलनदक्षनिजबलदर्शनाय द्वारस्थितं महातरं मुष्टिना समूलं भूमौ निपात्य यावानेव काल एतस्य तरोरुन्मूलने लग्नस्तावानेव वैरिसमुच्छेदनेऽपि मे लगिष्यति, परन्तु लोकापवादभिया तदकृत्वैव परिव्रजामीति व्याजहार विश्वभूतिः। ततः सम्भूतिविजयमुनिपार्श्वे दीक्षितो बभूव । मासक्षपणादिबहुदुष्करतपांसि विदधद्विश्वभूतिमुनिरेकदा मथुरानगरीमागात् । तत्र च मासक्षपणपारणाकृते गोचर्ये गच्छन्नेकस्यां प्रतोल्यां नवप्रसूतया गवा हतो दौर्बल्यादधः पपात । तदवसरे सन्निधावेव श्वशुरवेश्मनि गवाक्षे संस्थितो विशाखनन्दी तमुपलक्ष्य सहासमवादीत्-विश्वभूते ! अद्य ते तद्बलं व गतम् ? येन पुरैकेन मुष्टिना महान्तमपि तरुमभाक्षीः ?, तदाकर्ण्य समुद्रीक्ष्य तमाह विश्वभूतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org