________________
भीकल्पसूत्रार्थप्रबोधिनी.
(२९) रशीतिलक्षपूर्वमायुरुपभुज्य ममार । चतुर्थे भवे पञ्चमदेवलोके दशसागरोपमायुको देवोऽभवत् । ततोऽप्यायुषि परिपूर्णे च्युत्वा कोल्लागस. निवेशेऽशीतिलक्षपूर्वायुष्कः कौशिकनामा विप्रोऽभूत् । अत्रापि प्रान्ते तापसी दीक्षां गृहीत्वाऽऽयुषः क्षये मृत्वा संसारे चिराय बंभ्रमाञ्चकारेति पञ्चमो भवः । षष्ठे भवे स्थूणानगर्यां पुष्पमित्रनामा ब्राह्मणोऽजनि। तत्रापि त्रिदण्डिनस्तापसी दीक्षां लात्वा द्विसप्ततिलक्षपूर्वमायुर्बुभुजे । सप्तमे भवे प्रथमदेवलोके मध्यमायुर्देवोऽभवत् । अष्टमे भवे ततश्च्युतश्चैत्यसन्निवेशे षष्टिलक्षपूर्वायुरग्निद्योतनामा विप्रो भूत्वा त्रिदण्डितापसवेषः कालमकरोत् ! नवमे भवे द्वितीयस्वर्गे मध्यमायुष्को देवो बभूव । ततश्च्युत्वा दशमे भवे मन्दिरसन्निवेशे षट्पञ्चाशल्लक्षपूर्वायुरग्निभूतिनामा विप्रो भूत्वा धृतत्रिदण्डिवेषो ममार । एकादशे भवे तृतीयदेवलोके मध्यमायुर्देवत्वेनोत्पेदे । ततश्च्युतः श्वेताम्बिकायां नगर्यां चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारद्वाजनामा द्विजो जज्ञे । तत्रापि त्रिदण्डिवेषेणाऽम्रियत, इति द्वादशो भवः । त्रयोदशे च भवे चतुर्थदेवलोके मध्यमायुर्देवत्वेनोदपद्यत । ततश्च्युत्वा चिराय संसारे भ्राम्यन् राजगृहनगरे चतुश्चत्वारिंशल्लक्षपूर्वायुष्कः स्थावरनामा विप्रोऽभवत्तत्रापि त्रिदण्डितापसतां दधन्नमारेति चतुर्दशो भवः । पञ्चदशे भवे पञ्चमस्वर्गे मध्यमायुर्देवो जज्ञे । ततश्च्युत्वा चिरं संसारे भ्रामं भ्राम राजगृहनगरे चित्रनन्दिनाम्नः क्षितिपतेः प्रियङ्गराड्यामुत्पन्नो विशाखनन्दिपुत्र आसीत् । तस्य राज्ञः कनीयान्भ्राता विशाखभूतियुवराज आसीत् । धारणी नाम्नी तत्पत्न्यभूत् , तस्या गर्भे मरीचिजीवः पुत्रत्वेनाऽवातरत् । तस्य विश्वभूतिनाम दधाते मातापितरौ । जाते च यौवने वयसि बहुरूपवत्या गुणवत्या कन्यया सत्रा पित्रा परिणायितः । प्रत्यहं स तया सह नृपोपवने रन्तुं वाति स्म। एकदा विशाखनन्दी राजकुमार आरामे क्रीडन्तमेनमपश्यत् । मनसि दध्यौ-यत्रोपवने
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org