________________
( २८ )
पीठिकासहितं प्रथमं व्याख्यानम् ।
तचक्री मरीचिमभिवादयितुं समवसर गाद्बहिस्तदभ्याशमागत्य विधिवदभिवाद्य तमवोचत मरीचे !' अहं त्वयि भविष्यद्वा देवत्वचक्रार्त्तित्वे च नाऽभिवन्दे, किन्तु भविष्यन्तं चतुर्विंशतितमं महावीरनामानं तीर्थङ्करं वन्दे, इति निगद्य भरतचक्री स्वस्थानमगमत् । मरीचि - सीमानन्दं मनसि बिभराञ्चकार, जगाद च यन्मे पितामहस्तीर्थकारः, पिता च चक्रवर्ती वर्त्तते । स्वयमप्यहं वासुदेवत्वचक्रवर्त्तित्वयोः सुखमनुभूय चरमतीर्थङ्करपदमाप्स्यामि । महन्मे कुलमित्थं निगदन् हर्षोद्रेकाद्भुजौ च ताडयन् करतालिकां ददानो नरीनृत्यते स्म । तेन च नीच गोत्रकर्माऽवधनात् । यतः - जातिकुलला भैश्वर्यबल रूपतपः श्रुतेत्यष्टधा मदकरणेन जीव हीनजात्यादिकमुपैति । एकदा मरीचेः शरीरे रोगो जातः, परन्यसंयतत्वाच्चैकोऽपि साधुस्तद्वैयावृत्त्यं नाऽकरोत् । तदा मरी चिनाऽचिन्ति यदाऽयं रोगो मोक्ष्यति, तदैव कमप्येकं शिष्यं करिष्यामि, यो मामीदृशे संक्लेशे सेविष्यते । अथ कियद्भिर्दिवसैस्तस्य रोगो न्यवृतत् । ततः कपिलनामा राजपुत्रस्तत्पार्श्वमागात् । स मरीचिमुखाद्धर्मोपदेशमाकर्ण्य प्रत्यबोधि । ततो दीक्षां ययाचे । मरीचिनाऽभाणि - भोः ! भगवतः पार्श्व याहि, तत एव दीक्षां गृहाण । तदनु कपिलो दीक्षार्थी ऋषभदेवपार्श्वमागत्य समवसरणे क्षणमुपविश्य, पुनर्मरीचिसमीपमागत्य चचक्षे - स तु राज्यलीलां विदधाति, धर्मस्तु मनागपि तत्र नाऽलोकि । भवतामपि पार्श्वे विद्यते न वा धर्मः ? इति कपिलोक्तेः पुनः पुनस्तथ्येन धर्मवचनेन मरीचिस्तं प्रतिबोधयामास, तथापि कर्मबाहुल्येन स नैव मेने । तदा सकषायो मरीचिः स्वधर्मस्थापनकामनया शिष्यलोभात्तमेवमवादीत् - कपिल ! ' यदत्रापिधर्मस्तत्रापि धर्मः ' अतएव दीक्षां सुखेन गृहाण, दास्याम्यहं ते दीक्षाम् । इत्थं तस्मै दीक्षां प्रदाय मरीचिरुत्सूत्रं बभाषे । प्रान्ते तदनालोचितकर्मयोगादेककोटाकोटी सागरप्रमाणसंसारकारिकर्मोपार्जनेन क्रमशश्चतु
6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org