________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(२७) चैकदा श्रीप्रथमजिनविभोर्देशनामाकर्ण्य दीक्षां ललौ । तदाऽन्येऽपि भरतचक्रिणः पञ्चशतपुत्राः सप्तशतपौत्राश्च दीक्षाञ्जगृहुः । एकदा निदाघे सन्तप्ताङ्गो मरीचिः स्नातुमैच्छत् । तदा संयमपरिपालनमति. दुर्वहं जानन् गृहीतदीक्षामवितुमप्यशक्नुवन् गृहेऽपि स्थातुमनिच्छन् साधुवेषं विहाय मनःकल्पितं नवं त्रिदण्डिनो वेषं बिभरामास । पृष्टे सत्येवमवोचत्-साधवो हि त्रिदण्डैर्मुक्ताः सन्ति, अहन्तु तैर्युक्तोऽस्मि, अतोऽहं त्रिदण्डिवेषं बिभर्मि । साधवो द्रव्यतो भावतश्च लुञ्चन्ति, अहन्तु तदशक्तत्वाच्छिखां वहन् क्षौरमेव विदधामि । साधवः खलु सर्वेभ्यः प्राणातिपातादिभ्यो विरमन्ति ते च शीलसुगन्धिना सुरभीकृता लसन्ति, मम तु तदभावाद्र कचन्दनविलेपनमेव घटते । साधूनां मोहलोभादयो नैव सन्ति, मम तु मोहादिर्वर्तते, अतश्छत्रं पादुके च भरामि । साधवः समस्तकषायविमुक्ता भवन्ति, अहन्तु तत्सहितत्वा. काषायाम्बरं धरामि । साधवो विशुद्धत्वान्न स्नान्ति, नास्म्यहं तथेत्यल्पवारिणाऽचित्तेन स्नामि । इत्थं कल्पितवेषभाक् कमण्डलुपाणिः प्रभोः समवसरणाद्वहिरेवोपविशति स्म । पृच्छकांस्तु तथ्यमेव जल्पति स्म । ये पुनर्मोक्षार्थिनस्तदन्तिकमागच्छन्ति स्म, तेभ्यः साधुमार्ग यथावदुपदिश्य श्रीऋषभदेवपार्श्वे दीक्षां दापयन् भगवता सह विचरनासीत् । अथैकदा श्रीऋषभदेवस्वाम्ययोध्यानगरीमाययौ । तत्र भग. वन्तं वन्दितुं भरतचक्री समागत्य प्रभुमभिवन्द्य पृच्छति स्म-प्रभो ! अमुके समवसरणे सोऽस्ति कश्चिद्योऽग्रिमतीर्थङ्करो भविता ?, प्रभुगा व्याहारि-समवसरणे कोऽपि नास्ति, किन्तु तद्बहिर्यस्त्रिदण्डिवेषधारी मरीचिनामा तव सूनुरास्ते, स एव चतुर्विंशतितमस्तीर्थङ्करो भविता महावीर नामा । अयमेव खल्वस्मिन् भरतक्षेत्रे पोतनपुरे त्रिपृष्ठनामा प्रथमो वासुदेवो भविष्यति, महाविदेहक्षेत्रे मूकानगर्या प्रियमित्र. नामा चक्रवर्तित्वमनुभविष्यतीति भगवद्वाक्यमाकर्ण्य प्रहृष्टमना भर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org