________________
(२६)
पीठिकासहितं प्रथमं व्याख्यानम् । तीर्थकृतां निर्वाणे जाते, तुरीयारकीयसार्धाष्टमासाधिकपञ्चसप्ततिवर्षेऽवशिष्टे, दशमस्वर्गीयातिरमणीयपुष्पोत्तरवरपुण्डरीकविमाने विंशतिसा. गरोपमामुत्कृष्टां स्थिति भुक्त्वा क्षपयित्वा च देवगतिनामकर्माणि, ततश्चयुत आषाढशुक्लषष्ट्यां मध्यरात्रेऽस्मिञ्जम्बूद्वीपे दक्षिणार्धभरते ब्राह्मणकुण्डनगरे कोडालगोत्रीयऋषभदत्तब्राह्मणस्य पत्न्या जालन्धरगोत्राया देवानन्दाया ब्राह्मण्याः कुक्षावुत्तराफल्गुन्यां श्रमणो भगवान् महावीरोऽवततार।
पुरैकदा भरतश्चक्री भगवन्तमादिनाथमपृच्छत्-स्वामिन् ! अस्यामवसर्पिण्यां के के तीर्थङ्कराः कुत्र कुत्र च कुले समुत्पत्स्यन्ते ?, भगवानाख्यत्-एकविंशतितीर्थपा इक्ष्वाकुकुले, द्वौ च हरिवंशकुले, चरमश्च वर्द्धमानो ज्ञातकुले जनितारः । इत्थं प्रथमजिनेशसूचितस्याऽमुष्य तीर्थकृतः सप्तविंशतिभवानाह-अमुष्मिञ्जम्बूद्वीपे पश्चिममहाविदेहे प्रतिष्ठानपत्तने कश्चिन्नृपादेशकरो नयसारनामा पटहवादको न्यवात्सीत् । स चैकदा राजवचसा बहूनि शकटानि पुरुषांश्च लात्वा काष्ठार्थे काननमगमत् । तत्र कस्यचित्तरोरधस्तात्स्वयमुपाविशत्, चराश्च काष्ठानि छेतुं लग्नाः । तदवसरे सार्थच्युता विस्मृतमार्गाः कियन्तः साधवस्तत्राऽऽययुः। अमूनालोक्य प्रमुदितः सुदिनं मन्यमानः स नयसारस्तदभिमुखमागत्य भक्त्या विधिवदभिवन्द्य शुद्धमाहारं तेभ्यः प्रायच्छत् । साधवोऽपि तं शुद्धं मङ्गलमयं धर्ममुपादिशन् । तन्निशम्य स सम्यक्त्वमीयिवान् । तदनु तद्दर्शितमार्गेण साधवः स्वगणे समागच्छन् । यावदयं जीवः सम्यक्त्वं नाऽऽसादयति, तावद्भवा नैव परिगण्यन्ते । याते च सम्यक्त्वे क्रियते भवपरिगणना, इति प्रथमो भवः । तदसौ सकलमायुरुपभुज्य प्रान्ते शुभध्यानेन मृत्वा प्रथमं देवलोकमध्यगच्छदिति द्वितीयः । तत्र चैकं पल्योपममायुरुपभुज्य ततश्चयुत्वा तृतीये भवे श्रीऋषभदेवस्य सूनोर्भरतचक्रिणो मरीचिनामा सूनुरभवत् । स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org