________________
श्रीकरुपसूत्रार्थप्रबोधिनी.
(२५) पमायुरुत्पद्यते । क्रोशैकमानं शरीरम् । एकाहमतिक्रम्य धात्रीफलप्रमाणमाहारं कुर्वन्ति । पार्श्वयोरस्थीनि चतुष्षष्टिपरिमितानि जायन्ते । एकोनाऽशीतिदिवसान्येव सन्ततिं परिपाल्य स्वयन्ति । इत्यवसर्पिण्यास्तृतीयारकस्योत्सर्पिण्याश्चतुर्थारकस्य च पद्धतिरुक्ता ३, तुरीयो दुःषप्र. सुषमा नामा द्विचत्वारिंशत्तहस्रोणैककोटाकोटिसागरोपमोऽस्ति । तत्राऽऽयुरेकपूर्वकोट्यब्दप्रमाणम् । शरीरञ्च पञ्चशतधनुःप्रमाणम् । स्वेच्छाप्रमाणमशनम् । मृत्वा च चतुर्गतिषु कामपि गतिमधिगच्छन्ति, क्षीणकर्मा च कश्चिन्मोक्षमपि याति । इत्यवसर्पिण्याश्चतुर्थारकस्योत्सर्पिण्यास्तृतीयारकस्य च रीतिरुक्ता ४, पञ्चमो दुःषमनामाऽस्त्येकविंशतिसहस्राऽब्दप्रमाण आरकः । तत्र प्राणिनां शरीरं तप्तहस्तद्वयसम् । विशेत्यधिकशतमायुः । मृत्वा च चतुर्गतिमध्ये कामपि गति प्रारब्धानुसा. रेण व्रजन्ति । परमत्र सर्वकर्माणि क्षपयित्वा कोऽपि मोक्षं ब्रजितुं नार्हति । इत्यवसर्पिण्याः पञ्चमारकस्योत्सर्पिण्या द्वितीयारकस्य च स्थितिरभाणि ५, पष्ठो दुःषनदुष्षमा नामैकविंशतिसहस्त्रवर्षप्रमाणकोsस्त्यारकः । अत्र हि षोडशवर्षमात्रमायुः, द्विहस्तमात्रं शरीरम् , विलवासी क्रूरकर्मोज्झितनीतिमार्गश्च जीवो भवति, अतएव दुर्गतिमेवोपयाति । इत्यवसणिण्याः पष्ठारकस्योत्सर्पिण्याः प्रथमारकस्य च स्थितिरुक्ता ६ । इत्थमुभयकालयोरवसर्पिण्युत्सर्पिणीलक्ष गयोरारकागां द्विरावर्त्तनं यावज्जायते, तावदिशातकोटाकोटिसागरोपमः कालो याति। १४ श्रीवीरविभोः सप्तविंशतिभवप्रदर्शनम् -
ईशाऽवसर्पिण्यास्तृतीयारके सार्धाष्टमासाधिकत्रिवर्षावशिष्टे निर्ववृते भगवान् श्रीऋषभदेवः। तदनु तत्कुलाऽऽविर्भूतश्रीअजितादिविंशतितीर्थपतीनां हरिवंशवंशावतीर्णमुनिसुव्रतनेमिनाथयोरित्थं द्वाविंशति
१ इतोऽधिकमप्यायुर्भरतक्षेत्रीयोत्तरदिग्भागे सम्भवतीति वित्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org