________________
(२४)
अथ ग्रन्थारम्भः।
णमो अरिहंताणं, णमो सिद्धाणं, मो आयरियागं, णमो उवज्झायाणं, णमो लोए सव्वलाहूणं । “ एसो पंचनमुक्कारो, सन्त्रपारप्पणासणो । मंगलाणं च सव्वेलिं, पढमं हवइ मंगलं ॥१॥" १३ पडारकस्वरूपदर्शनम्__ साम्प्रतं प्रथमाधिकारे वर्तमानशासनोपकारितया प्रथमं श्रीमहावीरप्रभुचरित्रं वर्णयितुमारकाणां स्वरूपमाख्याति-अथाऽमुष्मिञ्जम्बूद्वीपे भारतैरावर्तक्षेत्रयोरवसर्पिण्युत्सर्पिण्यौ कालौ स्तः। यत्र प्रतिसमयं रूपरसादीनां हासः सावसर्पिणी, प्रतिसमयं च यत्र रूपरसादयो वर्द्धन्ते सोत्सर्पिनी निगद्यते । ते प्रत्येकं दशकोटाकोटिसागरोपमप्रमाणे स्तः, एकैकस्याञ्च षडारका जायन्ते। इत्थमेव धातकीखण्डपुष्करावर्त्तद्वीपीय भरतैरावर्त्तयोरप्येतदवगन्तव्यम् । तेषु प्रथमः सुषमसुषता नामा चतुष्कोटाकोटीसागरप्रमाणो वर्तते । तत्र मनुजास्तिर्थश्चश्च त्रिपल्योपमाऽऽयुषो जायन्ते । तेषां शरीरञ्च त्रिकोशमात्रं भवति । पार्श्वयोरस्थीनि च षट्पञ्चाशदधिकानि द्विशतानि । कल्पवृक्षफलमपि मसूरिकाप्रमाणं त्रिभिर्दिनैरश्नन्ति । एकोनपञ्चाशद्दिनावधियुग्मजात. मवन्ति, ब्रजन्ति च पश्चाद्देवलोकम् । इत्यवसर्पिण्याः प्रथमारकस्योत्सर्पिण्याः षष्ठारकस्य च स्थितिरस्ति १, द्वितीयः सुवमा नामा त्रिकोटाकोटिसागरोपमो वर्ति । तत्र मनुष्यस्तियङ् च द्विपल्योपमायुरुत्पद्यते, चतुष्पष्टिदिवसान्येवाऽपत्यं परिपालयते, द्विक्रोशप्रमाणं शरीरम् । द्वाभ्यां दिनाभ्यां बदरप्रमाणमभ्यवहरते । पार्श्वयोरस्थीन्यष्टाविंशत्यधिकशतानि भवन्ति । इत्यवतर्पिण्या द्वितीयारकस्योत्सर्पिण्याः पञ्चमारकस्य च स्थितिरभिहिता २, तृतीयः सुषमदुःषमा नामा द्विकोटाकोटिसागरोपमप्रमाणो वर्तते । तत्र युग्मजातमनुजतिरश्चोरेकपल्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org