________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(२३) पापीयानजायत, यदद्यापि तैलिकालये प्राहिणोत् । सोऽपि समग्रं दिनं घाणि के संवाह्याऽभुक्तमेव मामप्यत्राऽबध्नात् । इत्थं तयोर्माषणं निशम्य खटास्थः पुत्रो दध्यौ-हा ! हा !! ममैतौ पितरौ स्तः । कथमिती सद्गतिमेतारौ, धिङ्माम् , यः पितरौ सद्गतिं नो नयते, किन्तेन तनयेनेत्यादि विचिन्त्य तूर्ण मुत्थाय प्रभूतं पायसमानीय शुनी यथेच्छमभोजयत, वृषभाय च यत्र पर्याप्तमार्पयत । जाते च प्रभाते मातापित्रोः सद्गतिप्रापणाय देशान्तरमगमत् । बहूंश्च तीर्थान प्राप्य तेषु ताम्गां पिण्डमदात् , तयोः सुगतये नानाविध यथाशक्तिदानमप्यदात् । कचिन्महातीर्थ कञ्चनमहापमपृच्छत्-महर्षे ! केन पापेन मे माता श्वयोनौ जाता ? पिता च वृषभोऽभवत् ? केनोपायन पुनस्तौ सद्गतिमेष्यतः ? महर्षिरूचे विध! तव पितरौ ऋषिपञ्चम्यां पशुवत्कामकिङ्करीभूती यभनमकृपाताम् । तत्पापेन तौ तादृग्योनौ जज्ञाते । यदि तो सद्गतिं निनीषसि तर्हि तदुपायं शृणु-या भाद्रसितपञ्चमी सैव ऋषिपञ्चमी निगद्यते । तस्यामुपोष्य चतुर्विधाहारो हातव्यः, तद्दिने च भाटक जिघृक्षया वृषभः कस्मैचिन दातव्यः । उपवासाऽशक्ती च केवलं दशमुष्टिमितं स्विन्नमाषमात्रमशनीयम् । एतत्प्रभावादेव तौ सुगतिं लप्स्यते । ब्राह्मणोऽपि तथा विधाय पितरौ सद्गतिं निनाय । तद्दिनादेव सर्वत्र लोके ऋषिपञ्चमी व्यवजह । १२ वाचनक्रमनिरूपणम्--
तत्रेदानीन्तनी वाचनापरिपाटी चेत्थं वर्तते-भाद्रकृष्णामायां पीठिकया सह प्रथमं द्वितीयञ्च व्याख्यानं समापयेत् । शुक्लप्रतिपदि तृतीयचतुर्थे व्याख्याने, शुक्लद्वितीयायां पञ्चमषष्ठे, तृतीयायां सप्तमाएमव्याख्याने समापयेत् । चतुर्थ्यान्तु तन्मूलमात्रं परिपूर्ण श्रावयेत् । नवमव्याख्यानवाचने समापने च कालनियमो नास्ति । पर्युषणानन्तएमपि तत्समापययुः । एतद्वाचनारम्भवेलायामादावेषा महामङ्गलमयी गाथा वक्तव्या
'पुरिमचरिमाण कप्पो, मंगलं वद्धमाण तित्थम्मि।
इह परिकहिया जिण-गणहराइ थेरावली चरित्तं ।' प्रथमान्तिमजिनेशयोस्तीर्थे कल्पसूत्रमवश्यं वाचनीयम् । अत्राधेकारत्रया वर्तते । प्रथमे जिनानां चरित्राणि १, द्वितीये गणधरादिस्थविरावली २, तृतीये चाष्टाविंशतिधा साधुसमाचारी ३।
इति कल्पपीठिका समाप्ता ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only