________________
(२२)
पीठिकासहितं प्रथमं व्याख्यानम् । ११ भाद्रसितपञ्चम्याः प्राधान्यकथनम् -
भाद्रसितपञ्चमी तिथिर्यथा श्रीजिनशासने मान्यतमास्ति, तथाऽन्यदर्शनेऽपि ऋषिपञ्चमीतया श्रेयस्करी परिगण्यते तथाहि-पुष्पवत्यां नगयों नीलएठनामा भूदेवो न्यवात्सीत् । तस्य सोमा नाम्नी भार्यावर्त्तत । आमीचेन्द्रदेवाभिधानः सूनुः । असौ जन्मप्रभूत्येव रशिरोमणिरवर्तिष्ट । कियता कालेन तन्मातापितरौ मृन्वा माता शुनी पिता च वृषभोऽमुष्य समन्व बभूवतुः । तयोः साम्पत्सरिके श्राद्धदिवसे समुपस्थिते निर्धनत्वादसौ शुशोच-हन्त ! अद्य मे पित्रार्षिकदिवसो वर्तते, सामग्री च सदने कापि नास्ति, कथं तत्सम्पद्यत, अकरणे च लोका उपहसिष्यन्ति, पितरौ च मां शप्स्यतः । तावदेकस्तैलिको भाटकेन वृषभं लातुमागात । नीलकण्ठोऽपि तस्मै तं प्रदाय तद्भाटकेन घृतगोधूमशर्करातण्डुलादिसकलां सामग्रीमानीय पत्न्यै समर्थ ब्राह्मणाभिमंत्रयितुं गतवान् तत्पत्नी च पायसमोदकापूपिकशाप्कुलिकादिनानाविधमपाक्षीत् । पायसान्तश्च सरीसृपो गरलमवमत् । विप्रस्त्री तनावेदीत् , तदा शुन्या जातिस्मतिर्जाता, तबलेन तस्मिन् क्षीरपाके वान्तं गरलं विदित्वा प्राग्भवीयमात्मसदनमेतदिति तत्रागात् । दध्यौ च यद्येतद्भोक्ष्यन्ति विप्रास्तर्हि मरिष्यन्ति, एतदशनात्पुत्रोऽपि विपत्स्यते नूनमिति विचिन्त्य तत्र मुखं दत्वाच्छिष्टं कृतवती । तद्विलोक्य कुपिता पुत्रवधुर्मुसलेन तच्छिरसि गाढं जघान । तत्प्रहारेण भग्नमस्तका सा शुनी महत्या वेदनया व्याकुलीभूय भृशं क्रन्दन्ती तत्रैव गोशालायामागत्य भूमावपप्तत् । पश्चाद् गृहागतो विप्रस्तत्स्वरूपमवगत्य दुग्धान्तरमानीय पाचयित्वा निमन्त्रितान् द्विजानभोजयत् । सायङ्काले च श्रान्तो नीलकण्ठस्तस्यामेव गोशालायां खट्रोपरि सुष्वाप । सकलं दिनं तैलयन्त्रे संयोज्य स्तोकमपि यवसमभोज्य सायं तत्रैवानीय तं जुधात वृषभमबध्नात्त तैलिकः । तत्रैवाव सरे तयोवृषभशुन्योः शरीरे तदीया कुलदेवी समकाम्यत् , तेन सा कुकुरी वृषभमवोचत-अद्यावयोः श्राद्धे द्विजाः संभोजिताः, परमेषा पापीयसी वधूर्मे शिरोऽभाङ्क्षीत्तेन महतीमसह्यां वेदनामनुभवामि । वृषोऽप्यवक्-पुत्रोऽपि
धर्मशालामप्यागन्तुं नेहाञ्चक्रे । तदाऽत्यासन्ने पर्युषण पर्वणि लोकानामप्रवृत्तिमालोक्य गुरुणा तद्धेतौ पृष्टे राज्ञः शोक एव तत्र कारणमिति विदित्वा गुरू राजसभामागत्य धर्मोपदेशेन राजानं प्रत्यबुधत् । प्रतिबुद्धे च राजनि महालाभो भविष्यतीतिधिया मङ्गलहेतवे प्रथमां वाचनामकरो द् गुरुः । तदाकर्ण्य राजपुत्रस्य सा ज्वरपीडा किञ्चिच्छमनोन्मुखी जाता । इत्थं गुरुमुखाच्छ. तासु नववाचनासु राजपुत्रः सर्वथा जवरदाहेनाऽमुच्यत । सहर्पमना राजा महामहोत्सवं व्यधत्त, अभ्यर्थयच्च गुरून्-भगवन् ! प्रत्यब्दमेतत्कापसूत्रं समस्तसङ्घमङ्गलाय वाचनीयम् । इति ग्रन्थान्तरेउलेखि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org