________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(२१) सीत् , तस्यातिप्रेयान् सेनागजनामा सूनुरासीत् । सचाल्पायुषत्वादल्पे वयसि ममार, तेन हेतुना शोकपूर्णमना नरपतिः सर्वं त्यजति स्म । समागाच्चपर्युषणपर्वाधिराजः, अनागच्छति च धर्मशालां क्षितिपतावितरेऽपि लोका नैवाऽऽगच्छन्ति स्म । तदा धर्महानि विलोक्य गुरुः कालिकाचार्यो नरपालान्तिकमगमत्, प्रत्यबोधच्चैवम्-राजन् ! त्वयि शोकातिरेकाद्धर्मकृत्यमुज्झति सतीतरेऽपि पुरवासिनो लोकाः सर्वे धर्ममत्यजन् । सर्वमिदं धनपुत्रकलत्रादिकं क्षणभङ्गरमस्ति, आयुरपि सर्वेषां समान शाश्वतं वा नैव जायते । इत्थनमुष्मिन् संसारे कमपि मा शोचीः । सर्वाधिकोपकरिष्णुः शाश्वतसौख्यदायी धर्म एव सेव्यताम् । कृतेऽपि बहुशोके मृतं गतं वा नैव लभते । इति विजानता मतिमता भवता मनसः शोको निष्कासनीयः, वर्तते च पञ्चम्यां पर्युषणम् । तस्या मुपाश्रयमागच्छेत्तर्हि श्रीभद्रबाहुस्वामिना नवमपूर्वादुद्धृतं महामङ्गलमयं कल्पसूत्रमहं वाचयेय । राजाऽजल्पत्-भगवन् ! पञ्चम्यामिन्द्रमहो. त्सवो भविष्यति, करणीयञ्चास्ति मृतपुत्रशोकापनोदनम् । अतस्तां जहाहि, चतुर्थी षष्ठी वा स्थिरी कुरु ? पश्चम्यान्तु नागन्तुमर्हामि । तदा गुरुः ‘अंतरा वि य से कप्पति ' इतिसूत्रपाठमनुस्मरंश्चतुर्थीमेव स्थापयामास । इति निर्धारित प्रहृष्यन् राजा बलमित्रभानुमित्राभ्यां भागिनेयाभ्यां प्रधानादिवर्गः सहोपाश्रयमाययौ। तदनु नवभिर्वाच. नाभिः सप्रभावनं महता महेन सकललोकेषु विधिवच्छ्रोतुकामेषु गुरुः कल्पसूत्रं वाचयामास । तद्दिनादमुष्मिन्महापर्वणि चतुर्विधसङ्घाग्रे कल्पसूत्रश्रावणव्यवहारः प्रससार । अद्यापि तदनुसरन्ति सर्वे महान्तो मुनिगणाः।
( १) शानन्दपुरे कालिकाचार्यश्चातुर्मासके तस्थिवान् । इतश्च ध्रुवसेनमहीशितुरेकएन पुत्र भासीत्सचाऽतिदारुणेन दाहज्वरेण परिपीडितो जज्ञे । भूयानुपचारोऽकारि परमेकोऽपि तां षाधां शमयितुं नो शशाक । ततश्चिन्तातुरः क्षितीशः सर्व राजकार्य जहौ, गुरुवन्दनायै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org