SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २५६ २०४८ ४०६६ (२०) पीठिकासहितं प्रथमं व्याख्यानम् । ख्यानप्रवादात्मकनवमपूर्वात्सारमुद्धृत्य श्रीदशाश्रुतस्कन्धसूत्रस्याऽष्टमाध्ययनतयैतन्निरमायि । सहासनगजपरिमितमषीपुञ्जलेख्यमानतस्तेषां पूर्वाणां परिमाणमित्थम पूर्वनाम गजमानं | पूर्वनाम गजमानं १ उत्पादपूर्वम् । ८ कर्मप्रवादपूर्वम्। १२८ २ श्राग्रायणीयपूर्वम् । ९ प्रत्याख्यानप्रवादपूर्वम् ३ वीर्यप्रवादपूर्वम् । १० विद्याप्रवादपूर्वम् ।। ५१२ ४ अस्तिनास्तिप्रवादपूर्व ११ श्रवन्ध्यप्रवादपूर्वम् । १०२४ ५ ज्ञानप्रवाद पूर्वम् । | १२ प्राणापायप्रवादपूर्वम् । ६ सत्यवादपूर्वम् । | १३ क्रियाविशालपूर्वम् । ७ आत्मप्रवादपूर्वम् ६४ १४ लोकबिन्दुमारपूर्वम् । । ८१६२ यद्यप्येते १६३८३ एतावद्गगजप्रमितमषीपुञ्जन लेख्याः स्युः, परमद्यावधि कोऽपि पुमांस्तन्नैव लिलेख, नो लेखिष्यति, तथाप्येतत्परिमाणकथनेन केवलमुपमैवाऽदर्शि भगवता । अथ च कल्पसूत्रस्य महापुरुषप्रणीतत्वात्तदर्थसंख्या कत्तुं नैव शक्या। यदि जगत्यामस्यां सकलकूलङ्कपासैकतकणान् गणयेत्कथञ्चित्, असंख्यातसरित्पतिवारिबिन्दून् वा कोऽपि कदापि गणयेत्तथापि कल्पसूत्रस्यार्थपरिमाणकथनमसंभवमेवास्ति । तदुक्तम्-" मुखे जिह्वासहस्रं स्याद्, हृदये केवलं यदि । तथापि कल्पमाहात्म्यं, वक्तुं शक्यं न मानवैः ॥ १॥" १० सङ्घसमक्षवाचनपरिपाटी प्रागेतत्कल्पसूत्रं भाद्रसितपञ्चम्यां सांवत्सरिकप्रतिक्रमणानन्तरं मध्यरात्रे कालग्रहणं विधाय तिष्ठन्नेव गुरुः सूत्रपाठमुच्चारयन्नासीत्, इतरे च साधवः कायोत्सर्गेण शृण्वन्ति स्म । साध्व्यस्तु तदिन एव शृण्वन्ति स्म । तदनु श्रीवीरनिर्वाणतोऽशीत्यधिकनवशततमे वा त्रिण. वत्यधिकनवशते वर्षे किलानन्दपुरे ( सांप्रतं बडनगरे ) ध्रुवसेनो राजा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy