________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(१६) व्रतधारी सुश्रावकोऽभवत् । अष्टमीचतुर्दश्योरुपोषणं चतुर्मासके च षष्ठं तपः पर्युषणे चाऽष्टमं तपः प्रत्यब्दमकरोत् । प्रत्यहं जिनार्चनं श्रमणसेवनं, सन्ध्याद्वयेच प्रतिक्रमणं सामायिकादि कुर्वाण आसीत्। अथैकदा विजयसेनो राजा निरागसमपि कमपि पुमांसं मुधैव चौर्यकलङ्कमारोप्य शूलिकारोपणेनाऽजीघतत् । स मृत्वा व्यन्तरीभूय प्राग्वैरानुसन्धानेन सकलपौरजनविघाताय व्योम्नि नगरद्वयसीमेकां शिलां व्यकरोत् । सर्वाश्च भीषयन् प्रथमं राजसभायामागत्य नरनाथं पादेन प्रहृत्य शोणितं वमन्तं सिंहासनादधः पातितवान् । तदा तदद्भुतं विलोक्य नागकेतुः कथङ्कारमहं सकलसंघनरपालजिनप्रासादादेरकालसंहारं जीवन्नेव पश्येयमिति विमृश्य मनसि जीवदयामानीय भगवतः प्रासादशिखरमारुह्याऽधः पतन्तीं शिलामेकेन पाशिना धृतवान् । तादृशीं नागकेतोस्तपःशक्तिमसहमानः स व्यन्तरोऽपि विकृतां शिलां संहृत्य नागकेतोः पादयोः पपात, स्वापराधं क्षमयँस्तदीयवचसा भूपतिमपि निरुपद्रवं विधाय निजस्थान मगमत् । नागकेतोश्च सर्वत्र महिमा ववृधे, राजापि भृशं सत्कृतवानेनम् । ततः प्रथमतोऽप्यधिकं तपोजपा. दिनानाविधानि सुकृतानि कुर्वन् विचचार । अथान्यदा जिनेश्वरमर्चन्तमेनं कुसुमान्तःस्थितश्चक्षुश्रवा अदांक्षीत् , तदा तद्विषव्याप्ताऽशेषदेहो भूत्वा शुभध्यानलीनमनाः कैवल्यज्ञानमापत् । तदैव शासनदेवता च रजोहरणादिसाधुवेषोपकरणानि तस्मै दत्तवती। केवलीभूत्वा स चिरं यथेच्छं विहरन् बहून् भव्यजीवान् प्रतिबोधयन्मोक्षमीयिवान् । एव. मन्येऽपि ये भव्याः पर्युपणे महापर्वणि विधिवदष्टमं तपःकृत्वा सम. स्तमनोरथावाप्तिकरं निकाचितघातिकर्मचतुष्टयजिष्णु श्रीकल्पसूत्रं श्रो. प्यन्ति तेऽश्यं सदा शाश्वतसुखमयमजरामरपदमंहिष्यन्ति । ९ ग्रन्थकर्तुर्नामपूर्वमानकथनश्च
अर्थतस्य कल्पसूत्रस्य प्रणेता श्रुतकेवलिश्रीभद्रबाहुस्तेन प्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org