________________
(१८)
पीठिकासहितं प्रथमं व्याख्यानम । दमुष्य शिशोर्जीवनधनपरित्राणाय समायातोऽस्म्यत्र । राजोवाच-देवेन्द्र! जातमात्रेणामुना कथं तदकारि ?, धरणेन्द्रोऽवदत्-अयं खलु पूर्वस्मिन् भवे कस्यचिद्वणिजः सूनुरासीत् । शैशवे मृतमातृके तत्पिताऽन्यां पर्यणयत, सा दुराशयाऽऽसीदतएवाऽल्याऽपराधेऽप्येनं बहुताडयन्ती दुःखं ददाति स्म । तेन प्रत्याहिकदुःखेन खिद्यमानोऽयं बालः कमप्येकं श्रावकं सखायं तत्कारणमचकयत् । सखाऽजल्पत्-त्वया भवान्तरे धर्मो नाऽकारि, अतोऽमुष्मिन् भवे किलेदृशं दुःखमनुभवसि। अतस्त्वं धर्ममाराधय, संसारे धर्मएव प्राणिनां वाञ्छितं फलं प्रापयते । मित्रोपदेशमाकर्ण्य धर्ममना भवन्नष्टम्यां चतुर्दश्याञ्चोपवसन् द्वितीयेऽहनि नवकारसी पोरसीत्यादि तपांसि विदधदनुक्रमेण पर्युषणेचागामिन्यवश्यमहमष्टमं तपः करिष्यामीति निश्चित्य तृणमय्यां कुट्यामस्वाप्सीत् । तदा समीपे कस्मिंश्चित्सदने लग्नमग्निमवलोक्य पापपरायणा विमाताऽवसरं लब्ध्वा तस्यामपि कुट्यामग्निकणं क्षिप्तवती । ततः प्रदीप्तेऽग्नौ तदन्तः सुप्तोऽसावपि शुभध्यानेन ममार । विहिताष्टमतपोमहिम्ना निरपत्यस्याऽमुष्य श्रीकान्तस्य गृहे पुत्रोऽभवत् । अतएवाऽमुष्मिन् भवे जातिस्मृत्या बाल्येऽपि शिशुनाऽमुकेनाष्टमं तपश्चक्रे, बालत्वात्क्षुधया मूर्छामेव महतीमाप, न ममार। परन्तु तदजानन्तो लोका मृतधिया भूमावेनं निचख्नुः । तदहं ज्ञात्वा तत्राऽऽगत्य सुधां संसिच्यैनमुज्जीवितमकार्षम् । राजन् ! अयं नरोत्तमोऽस्ति, ब्रजिष्यति चामुष्मिन्नेव भवे मोक्षम् , अतोऽयं यत्नतस्त्वया संरक्षणीयः । उपकरिष्यते चाग्रे त्वामपि तत्र मा संशयीथाः। इत्थं व्याहृत्य निजग्रीवातो हारमुत्तार्य शिशोरधिग्रीवं निधाय धरणेन्द्रः स्वस्थानमागात् । तदनु राजा हस्तिस्कन्धे तमारोप्य महताऽऽडम्बरेण गृहमनयत् । ज्ञातिभिः साकं श्रेष्ठिनो मृत्कार्यश्चाऽकरोत् । तस्य शिशोर्महोत्सवं विधाय नागकेतुरित्यभिधानं व्यधाद् ।असौ जन्मनैव जितेन्द्रियो द्वादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org