________________
श्रीकरुपसूत्रार्थप्रबोधिनी.
(१७) न्तनामा महेभ्यः । अस्ति चाऽमुष्य श्रीसखी मनोऽनुकूला धर्मपत्नी, तयोश्चरमे वयसि सूनुरध्यजायत । सचैकदाऽऽसन्ने पर्युषणमहापर्वणि पार्श्ववर्तिजनैः परस्परमालपितामष्टमतपःकथामश्रौषीत् । तच्छ्रवणेन तदैव जातजातिस्मृतिज्ञानेन प्राक्तनं भवमसावपश्यत् । ततः स्तनन्धयावस्थायामेवाष्टमं तपः कर्तुं निजस्वान्ते निश्चित्य स्तन्यपानमौज्झत् । ततोऽतिकृशतां नीतोऽसौ शिशुम॒तकल्पोऽभवत् । विहितेष्वपि दुःखातु. राभ्यां पितृभ्यां यन्त्रतन्त्रमन्त्रौषधादिबहूपचारेषु पयः पातुं नैव चकमे । तदा क्षुधया मूञ्छितं बालं मृतम्मन्यमानौ पितरौ पुत्रशोकाद्विपन्नावभूताम् । ततो ज्ञातयस्तं बालं श्मशानभूमौ गर्वं खनित्वा तत्र निक्षिप्य मृदाऽपिदधुः । अपुत्रं तं श्रेष्ठिनं मृतं श्रुत्वा तद्धनजिघृक्षया राजा तत्र प्रधानान् प्राहिणोद् । अस्मिन्नवसरे विहिताष्टमतपःप्रभावाद्धरणेन्द्रस्यासनमचालीत् , तदाऽवधिज्ञानेन तत्कारणं विदित्वाऽऽगत्य चामृतसेकात्तं बालमुज्जीव्य विप्रवेषेण तद्गृहद्वारि तस्थिवान् सः। ऊचिवांश्च राजपुरुषान्-भोः ! इदं धनं मा लात । तेन वारितास्ते पुरुषा आगत्य राजानमूचिवांसः-स्वामिन् ! तगृहे स्थितः कश्चिदेको विनो निवारयते धनानि लातुकामानस्मान् । इति निशम्य क्रुधारुणलोचनो नरनाथस्तैः समं तत्रागत्य विप्रमवादीत्-भोः ! अस्मिन्नगरे यो निरपत्यो नियते तस्य धनगृहादिसर्वमात्मसात्कुरुते राजा, इति शाश्वतं नृपशासनं जागर्ति । तर्हि कथमेतान् राजकीयान् पुरुषान् प्रतिषेधसि । विप्रोऽवदत्-तत्र भवता सत्यमभाणि, परमसौ निरपत्यो नो ममार, वर्त्ततेऽधुनापि जीवन्नेव तत्पुत्रः । नृपालोऽजल्पत्-विद्यते जीवंस्तर्हि तं मां दर्शय ? सोऽपि तदैव गान्निष्काश्य निधानमिव जीवन्तमेव शिशुमदीदृशत् । तमवलोकमानाः सर्वे भूपादिका विस्मिता जाताः । राजाऽवदत्-कस्त्वम् ?,कश्चाऽयं स्तनन्धयः ?, कथमेतदवेदि वा भवता ?, विप्रउवाच-राजन् ! मामवेहि धरणेन्द्रनागराजम् । अष्टमतपःप्रभावा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org