________________
(१६)
पीठिकासहितं प्रथमं व्याख्यानम् । चक्रन्द । प्रभाते निर्विषतामुपगते च पुत्रे प्रहृष्टा सा पुत्रेण सह गृहमागतवती । तदा मृतमपि पुनरुज्जीवितं तमालोक्य सकला जना महदद्भुतं मेनिरे । तत्रैवावसरे कोऽपि व्यालग्राही तामप्राक्षीत्-रे जरति ! मन्त्रादिकमजानती केनोपायेन त्वमेनं निर्विषमकृथाः ?, सा जगाद-- सत्यमहं मन्त्रमौषधं वा न जानामि, किन्तु मोहादशेषां रजनी हंस हंसेति तन्नाम ग्राहं ग्राहमुच्चैरक्रन्दम् । ततो नैकटिकवनदेवप्रसादेन सूनुमें प्राण । इति वृद्धोक्तिमाकर्ण्य विषवैद्योऽवदत-सत्यमेतदमोघमु. पचेरिथ, यथा तन्नामाक्षराणि प्रयोगान्मन्त्राणि बभूवुः। तथैतत्कल्पसूत्रं शृण्वतां श्रावयताश्चानेकभवसञ्चितानि कर्माणि क्षणाद्विलीयन्ते, गुणाश्च भूयांसो जायन्ते । अत एतदीयं माहात्म्यं सर्वोत्कृष्टमस्ति । उक्तञ्च
नाऽर्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ १ : वाचनात्साहाय्यदानात्सर्वाक्षरश्रुतेरपि । विधिनाराधितः कल्पः, शिवदोऽन्तर्भवाष्टकम् ॥ २ ॥ एगग्गचित्ता जिणसासणम्मि, पभावणा पूअपरायणा जे । तिसत्तवारं निसुगंति कप्पं, भवण्णवं गोयम ! ते तरंति ॥ ३॥
खल्वमुष्मिञ् श्रीवीरचरित्रं बीजभूतम् , श्रीपार्श्वनाथचरित्रमङ्करम् , श्रीनेमिनाथचरित्रं पत्रम् , श्रीआदिनाथचरित्रं शाखाभूतम् , स्थविरावली कुसुमम् , समाचारी सौरभम् , फलन्तु मोक्षो विद्यते । तदेतत्सूत्रं कल्पद्रुमोपमं महापावनमाद्यन्तमक्षरशः श्रुत्वा जीवोऽयमष्टमे भवे मो. क्षमुपैति । अतः शाश्वतं सुखं प्रपित्सवो ये भव्या उपवासत्रयात्मकमष्टमं तपः कृत्वा सावधानैकाग्रमनस एतत्सूत्रं शोश्रूयन्ते, ते नागकेतुवन्मोक्षमधिगच्छन्ति । तथाहि-इह जगति विचकास्ति चन्द्रकान्ता नगरी । तस्यां विभ्राजते खलु विजयसेनो नराधिपः । निवसति च तत्र श्रीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org