________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(१५) बुद्धिष्वभयकुमारः, काननेषु नन्दनवनम, इन्द्रियेषु नयनम् , धनुर्धराणामर्जुनः, दानिषु कर्णः, गोषु कामधेनुः, रत्नेषु चिन्तामणिः, पानीयेष्वमृतम् , धातुषु सुवर्णः , कुसुमेषु कमलम् , तेजोवतामादित्यः, ज्ञानेषु कैवल्यम् . तीर्थेषु शत्रुञ्जयः, सुखेषु मोक्षो विलसति, तथाऽयं पर्वरराजो जमस्यामस्थांमाजलेतमाम् तत्र साधूनां १ सर्वचैत्येषु श्रीमदाहत्यः प्रतिमा वन्दनीयाः, २ शिरोरुहाणां लुञ्चनम् . ३ साम्वत्सरिकप्रतिक्रमणम् , ४ मिथःक्षमापणं, ५ अष्टमतपः, ६ कल्पसूत्रवाचनश्चेति षट् । श्रावकाणाञ्चैतस्मिन् १ षष्ठाष्टभादिकंतपः, २ सुपात्रदा नम् , ३ श्रीफलादिप्रभावना, ४ सचित्तवस्तुत्यागः, ५ सर्वारम्भपरि त्यागः, ६ ब्रह्मचर्यपालनम् , ७ अभयदानम् , ८ धर्मार्थे धनव्ययः, ९ चैत्यपरिपाटी, १० जिनप्रतिमाऽर्चनम् , ११ सकलसाधुवन्दनम् , १२ श्रीसंधभक्तिः. १३ द्वे सन्ध्ये प्रतिक्रमणम् , १४ अमारीपटहोद्घोष णम् , १५ श्रुतवृद्धानां भक्तिः, १६ दुष्कर्मक्षपणाय कायोत्सर्गकरणम् , १७ परस्परक्षमापणम् , १८ कल्पसूत्रस्य महोत्सवकरणम् , १९ भावना भावनम् , २० एकाग्रमानसा कल्पश्रुतश्रवणम् , २१ कल्पसूत्रवाचकस्य वैयावृत्यकरणं चेत्येकविंशतिकृत्यं कर्तव्यम् । ८ सोदाहरणं कल्पश्रुतिमाहात्म्यम् --- ___अथ पर्युष महापर्वणि महाफलप्रापक, रत्नत्रयवदान्यं, त्रिशल्योन्मूलनकर, वाङ्मनःकायोद्भूतदोषशोषकर, विश्वत्रयाय्यपदप्रापकं, साक्षात्कल्पपादपोपम, श्रीकल्पसूत्रमिदं माङ्गल्याच पश्चाहमवश्यं वाचनीयं साधुभिः । श्रावकैः श्राविकाभिश्च निद्रानादादिकं विहाय परया भक्त्या समहोत्सवं श्रोतव्यम् । एतच्छ्रवणवाचनाभ्यामुभयेषां कल्याणं भवति । यथा-कस्याश्चिदेकस्या वृद्धायाः पुत्रः कानने गाश्चारयन् भोगिना दष्टो मूर्छामुष्गतो मृतकल्पो भूमौ निपपात । लोकमुखात्तच्छ्रुत्वा सा वृद्धा तत्र गत्वा हंसहसेति नाम ग्राहं ग्राहं सकलां रात्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org