SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (१४) पीठिकासहितं प्रथमं व्याख्यानम् । न्यूनं पञ्चमादिद्वादशगुणसहितं मध्यमं तज्ज्ञेयम् । एवमुत्कुष्टे क्षेत्रे साधुभिश्चतुर्मासी स्थातव्यम , तदलाभे मध्यमे, तस्याप्यलाभे जघन्ये, साम्प्रतन्तु यत्र गुरव आदिशेयुस्तत्रैव कर्तव्या चतुर्मासी । यदत्र भूतले साधवो ग्रामानुग्रामं विहरन्ति । तत्राऽनेकतीर्थयात्रादि विदधतो मिथ्यात्वे निपततो भव्याञ्जीवानुद्धरन्ति, कुर्वन्ति च शासनप्रभावनाः । समायाते च वर्षौ, वर्षत्सु च वारिवाहेषु, पदे पदे प्रवहत्सु च जलप्रवाहेषु, समुद्भवत्सु च कोमलबहुलबालतृणेषु, प्रतिस्थानं सूक्ष्मा बादराश्च भूयांसो जन्तव उत्पद्यन्ते । अतस्तद्रक्षणाय प्रयतमाना मुनयः प्रावृषि कुत्रापि नो विहरेयुरेकत्रैव स्थाने चतुर्जाती यावत्तिष्ठेयुः, विदध्युश्च बहुविधान् घोरानभिग्रहान् । ६ सहेतुकविहारस्थितिनिरूपणम् -- ____ महामारीरोग आपतेत् १, भिक्षायां दौर्लभ्यं वा भवेत् २, राजा वा प्रकुप्येत् ३, कुन्थ्वादिजीवानां बहुधोत्पत्तिर्वा जायेत ४, सरीसृपाग्निदुर्जनानां भीतिर्वोत्पद्येत ५, इत्यादिकारणाऽन्यतमे तु चातुर्मासमध्येऽपि साधुभिरन्यत्र विहर्त्तव्यम् । तथा मेघे वर्षति, पथि च कर्दमाकुलिते, वनस्पति तमाच्छादितभूमितले च सति कार्तिक्याः परतोऽपि मुनिभिस्तत्रैव स्थातव्यम् , नान्यत्र विहर्त्तव्यमित्यर्हतामादेशः। ७ पर्वोत्कर्षदर्शनं साधुश्राद्धकृत्यकथनध अथ यत्र पत्तनादौ चतुरो मासान्मुनयस्तिष्ठेयुस्तत्र क्रमादायाते पर्युषणमहापर्वणि बाहुल्येन स्वाध्यायशुभध्यानतपोजपादिकं समाचरेयुः । सर्वेषु पर्वस्वेतन्मुख्यतमम् । यथा-मन्त्रेषु परमेष्ठिनमस्कारः, तरुषु सहकारः, देवेषु इन्द्रः, तारासु चन्द्रः, न्यायिषु रामः, सुरूपेषु कामः, रूपवतीषु रम्भा, वादित्रेषु भम्भा, गजेषु शक्रवाहनः, साहसिकेषु दशाननः, सतीषु सीता, ग्रन्थेषु गीता, गुणेषु विनयः सारः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy